SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २९१ -स्निग्धं-मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो-रजन्यां भास्वान् विमलोऽत्रधूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासांता दीप्यमानविमलग्रहणसमप्रभाः, ततः पदद्वयपदद्वयमीलनेन कर्मधारयसमासः, सहसाप्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमान-विमलग्रहगणसमप्रभास्ताभि, तथा वितिमिराः करा यस्यासौ वितिमिरकरः सचासौ सूरश्च वितिमिरकरसूरस्तस्येवयःप्रसरति उद्योतः-प्रभासमूहस्तेन 'चिल्लियाहिं ति देशीपदमेतद् दीप्यमानाभिरित्यर्थ, ज्वाला एव यदुज्ज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा-अभिरमणीया ज्वालोज्वलप्रहसिताभिरामास्ताभि, अत एव सोभमानाभि शोभमानाः, तथैव दीपशिखा अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतोद्योतविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वदं यावत् प्रतिरूपा इति ४ । 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्रप्रदेशेबहवोज्योतिषिका नामद्रुमगणाःप्रज्ञप्ता हे श्रमण! हे आयुष्मन्! यथा तद्अचिरोद्गतं शरदिर्यमण्डलं यदिवा यथैतद् उल्कासहं यथा वादीप्यमाना विद्युत् अथवा यथा निर्धूसज्वलितं उज्वलः-उद्गता ज्वाला यस्य स तथा हुतवहः, सूत्रे च पदोपन्यासव्यत्ययः प्राकृतत्वात्, ततः सर्वेषामेषांद्वन्द्वः समासः, कथम्भूता एते? इत्याह-'निद्धंतधोये'त्यादि, निर्मातेन-नितरामग्निसंयोगेन यद् धौतं-शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानांविकसितानां पुआः ये च मणिरत्नकिरणाः यश्च जात्याहिङ्गुलकनिकरस्तद्रूपेभ्यो प्यतिरेकेणअतिशयेन यथायोगंवर्णतः प्रभयाच रूपं-स्वरूपं येषां ते निर्मातधौततप्ततपनीयकिंशुकाशोकमापाकुसुमविमुकुलितपुञ्जमणिरत्न-किरणजात्यहिङ्गुलकनिकररूपातिरेकरूपाः, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविश्रसा-परिणतेनोद्या'तविधिनोपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् ५। ___ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवश्चित्राङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा तत् प्रेक्षागृहं विचित्रं-नानाविधचित्रोपेतम्, अतएव रम्यं-रमयति मनांसि द्रष्टणामिति रम्यं, बाहुलकात्कतरि यप्रत्ययः, वराश्च ताः कुसुमदाममालाश्च-ग्रथितकुसुममाला वरकुसुमदाममालास्ताभिरुज्ज्वलं देदीप्यमानत्वावरकुसुमदाममालोज्वलं, तथा भास्वान्-विकसिततयामनोहरतयाच देदीप्यमानो मुक्तो यः पुष्पपुञोपचारस्तेन कलितं भास्वन्मुक्तपुष्पपुञोपचारकलितं, ततः पूर्वपदे विशेषणसमासः, तथा विरल्लितानि-विरलीकृतानिविचित्राणियानिमाल्यानि ग्रथितपुष्पमालास्तेषां यः श्रीसमुदयस्तेन प्रगल्भं–अतीव परिपुष्टंविरल्लितविचित्रमाल्यश्रीसमुदयप्रगल्भं, तथा ग्रन्थिमंयत्सूत्रेण ग्रथितंवेष्टिमं यत्पुष्पमुकुटइवि उपर्युपरिशिखराकृयामालास्थापनंपूरिमं यल्लधुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संयोज्यते। -ग्रन्थिमंच वेष्टिमंचपूरिमंचसङ्घातिमंचेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिनापरमदक्षेण शिल्पिना विभागरहितेनयद्यत्र योग्यंग्रन्थिमंपूरिमंसङ्घातिमंचतत्रतेनसर्वतः-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलै-लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह-विप्रकृष्टै:-बृहदन्तरालैः पञ्चवर्णं कुसुमदामभि शोभमानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy