SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ शशिकापिरलीवच्चकपरिवादिनीवंशवेणुवीणासुघोषाविपञ्चीमहतीकच्छभीरिगसिका, तत्रालिङ्गय वाद्यत इतिआलिङ्गयःमुरवः-वाद्यविशेषः, एषयकारन्तशब्दः, मृदङ्गो-लघुमर्दलः, पणवो-भाण्ड पडहोलघुपटहोवापटह:-प्रतीतः, दर्दरकोऽपितथैव, करटी-सुप्रसिद्धा, डिण्डिमः-प्रथमप्रस्तावनासूचकः पणवविशेषः, भम्मा ढक्का, होरम्मा-महाढक्क, कणिता-काचिद् वीणा, खरमुखीकाहला, मकुन्दो-मरुवाद्यविशेषो योऽभिलीनं प्रायो वाद्यते, शशिका-लघुशङ्खरूपातस्याः स्वरो मनाक्तीक्ष्णो भवतिनतुशङ्खस्येवातिगम्भीरः, पिप्लीवच्चकौ तृणरूपवाद्यविशेषौ, परिवादिनीसप्ततन्त्रीवीणा वंशः-प्रतीतो वेणुः-वंशविशेषः सुघोषा-वीणाविशेषः, विपञ्ची-तन्त्री वीणामहतीशततन्त्रिका, कच्छभी रिंगसिका च लोकतः प्रत्येतव्या, एताः कथम्भूताः ? इत्याह _ 'तलतालकंसतालसुसंपउत्ता' तलं-हस्तपुटं तालाः-प्रतीताः कांस्यतालाः-कंसालिया एतैः ‘सुसंप्रयुक्ताः' सुष्टु-अतिशयेन सम्यग्-यथोक्तनीत्या प्रयुक्ताःसंबद्धा आतोद्यविषयाआतोद्यभेदाः, पुनः कथम्भूताः ? इत्याह-निउणगंधव्वसमयकुसलेहिं फंदिया' इति, निपुणं यता भवति एवं गन्धर्वसमये-नाटयसमये कुशलास्तैः स्पन्दिता व्यापारिता इति भावः, पुनः किंविशिष्टाः ? इत्याह-'त्रिस्थानकरणशुद्धाः' आदिमध्यावसानरूपेषुत्रिषुस्थानेषुकरणेन-क्रयया यथोक्तवादनक्रयया शुद्धाअवदातानपुनरवस्थानव्यापारणरूपदोषलेशेनापिकलङ्किताः, तथैव तेतुटिताङ्गकाअपिद्रुमगणा अनेकबहुविविधविनसापरिणतेन, अस्यव्याख्यानंप्राग्वत्, 'ततविततघनशुषिरेण ततं-वीणादिकंविततं-पटहादिकं घनं-कांस्यतालादिशुषिरं-वंशादि, एतद्रूपेण चतुर्विधेनातोद्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूलाः मूलवन्त इत्यादि प्राग्वद् यावप्रतिरूपकाः३। “उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशेबहवो दीपशिखा नामद्रुमगणाः प्रज्ञप्ता हे श्रमण! हेआयुष्मन्! यता तत् सन्ध्याविरागसमये' सन्ध्यारूपो विरुद्धस्तिमिररूपत्वाद्रागः सन्ध्याविरागस्तत्समये-तदवसरेनवनिधिपतेःचक्रवर्त्तिन इव दीपिकाचक्रवालवृन्दं-हस्वो दीपो दिपीका तासां चक्रवालं-सर्वं परिमण्डलरूपं वृन्दंदीपिकाचक्रवालवृन्दं, कथम्भूतमित्याह-'प्रभूतवर्ति' प्रभूता-बहुसङ्ख्याकाः स्थूरा वा वर्त्तयो यत्रतत्तथा,तता पलित्तनेहं तिपर्याप्तः प्रतिपूर्णस्नेहःतैलादिरूपोयस्य तत्पर्याप्तस्नेहं, 'धणिउजालिए' इति धणियं-अत्यर्थमुजवालितम्, अत एव तिमिरमर्दकं-तिमिरनाशकं, पुनः किंविशिष्टमित्याह :। 'कणगनिगरणकुसुमियपारियातगवणप्पवासे' कनकस्य निगरणं कनकनिगरणंगालितंकनकमितिभावः कुसुमितंच तत्पारिजातकवनंचकुसुमितपारिजातकवनं ततो द्वन्द्वसमास-स्तद्वप्रकाशः-प्रभाआकारोयस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम्, एतावता समुदायविशेषणमुक्तम, इदानीं समुदायसमुदायिनोः कथञ्चिदभेद इति ख्यापनयन समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह-'कंचणमणिरयणे' त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दीपिकाभि? अत आह-काञ्चनमणिरत्नानां काञ्चनमणिरत्नमया विमलाः-स्वाभाविकागन्तुकमलरहिता महार्हा-विचित्रा-विचित्र-वर्मोपेता दण्डा यासांताः काञ्चनमणिरत्नविमलमहार्हविचित्रदण्डास्ताभि, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च तत्युत्सर्पणेन सहसाप्रज्वालितोत्सर्पिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy