SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहव उद्दालाः कोद्दाला मोद्दालाः कृतमाला नृत्तमाला वृत्तमाला वृत्तमाला दन्तमालाः श्रृङ्गमालाः शङ्खमालाः श्वेतमाला नाम 'द्रुमगणाः' द्रुमजातिविशेषसमूहाः प्रज्ञप्ताः तीर्थकरगणधरैः हे श्रमण ! हे आयुष्मन् !, ते च कथम्भूताः? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति । “उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्यतस्य देशस्य तत्र तत्रप्रदेशेबहवस्तिलका लवकाः छत्रोपगाः शिरीषाः सप्तपर्णा लुब्धाःधवाःचन्दनाः अर्जुनाःनीपाः कुटजाः कदम्बाः पनसाःशालाः तमालाः प्रियालाः प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः ? इत्याहकुशविकुशविशुद्धवृक्षमूला इत्यादि सर्वं प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति। _ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशेबह्वयः पद्मलता नागलताअशोकलताश्चम्पकलताधूतलतावनलता वासन्तिकलताअतिमुक्तकलताः कुन्दलताः श्यामलताः, एताः सुप्रतीताः, 'निच्चंकुसुमियाओ'इत्यादि विशेषणजातंप्राग्वत् 'जावपडिरूवाओ' इति । 'उत्तरकुराएणंकुराए' इत्यादि, उत्तरकुरुषु कुरुषुतत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बह्वयो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पङ्कयो वनराजयस्ततः पूर्वोक्तसूत्रेभ्योऽस्यभिन्नार्थतेतिनपौनरुक्तयं, ताश्च वनराजयःप्रज्ञप्ताः कृष्णाः कृष्णावभासा इत्यदि विशेषणजातं प्राग्वत् तावद्वक्तव्यं यावत् 'अनेगरहजाणजुग्गगिल्लिथिल्लिसीयसंद-माणियजाव पडिरूवाओ' इति। ___ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो मत्ताङ्गका नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !, किंविशिष्टास्ते? इत्याह-यथा से चंदप्पभमणिसलाग' इत्यादि, यता चन्द्रप्रभादयो मद्यविधयो बहुप्रकारास्तत्र चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशलाकेव मणिशलाका, वरंच तत् सीधुच वरसीधु, वराचसा वारुणीच वरवारुणी 'सुजायपुत्रपुप्फफलचोयनिजाससारबहुदव्वजुत्तिसंभारकालसंधियआसव' इति इहासवः-पत्रादिवासकद्रव्यभेदादनेकप्रकारः । -तथाचोक्तंप्रभापनायांलेश्यापदेरसचिन्तावसरे-पत्तासवेइवापुप्फासवेइवाफलासवेइ वाचोयासवेइवा' ततोऽत्र निर्याससारशब्दः पत्रादिभि सह प्रत्येकमभिसम्बन्धनीयः, पत्रनिर्याससारः पुष्पनिर्याससारः फलनिर्यास सारश्चोयनिर्याससारः, तत्र पत्रनिर्यासो-धातकीपत्ररसस्तप्रधान आसवः पत्रनिर्याससारः,एवंपुष्पनिर्याससारः फलनिर्याससारश्चपरिभावनीयः, चोयोगन्धद्रव्यं तनिर्याससारश्चोयनिर्याससारः, सुजाताः-सुपरिपाकागताः, 'बहुद्रव्ययुक्तिसंभारा' इति बहूनांद्रव्याणामुपबृंहकाणांयुक्तयो-मीलनानि तासां संभारः-प्राभूत्यं येषुते बहुद्रव्ययुक्तिसंभाराः, पुनः कथम्भूताः ? इत्याह- ‘कालसंधिय' इति कालसन्धिताः सन्धानं सन्धा काले-स्वस्वोचिते सन्धा कालसन्धा सा संजातैषामिति कालसन्धिता, तारकादिदर्शनादितप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधुमेरकौ-मद्यविशेषौ, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रन्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्घजाति-आस्वादतः क्षीरसद्दसी, प्रसन्नासुराविशेषः, नेल्लकोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy