SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २८७ षट् कलाः उभयोश्च मिलित आयामोयथोक्तपरिमाणोभवति ६०४१८ क०१२।। ___'उत्तरकुराएणं भंते!' इत्यादि, उत्तरकुरूणां भदन्त! कुरूणां, सूत्रेएकवचनंप्राकृतत्वात्, कीश आकारभावस्वूपस्यप्रत्यवतारः-सम्भवः प्रज्ञप्तः?,भगवानाह-गौतम! बहुसमरमणीयो भूमिभागउत्तरकुरूणां प्रज्ञप्तः, से जहनामाए-आलिंगपुक्खरेइवा' इत्यादिजगत्युपरिवनषण्डवर्णकवत्तावद्वक्तव्यं यावत्त णानां च मणीनां च वर्णो गन्धः स्पर्श शब्दश्च सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रंचेदम्-"दिव्वं नट्ट सज्जं गेयं पगीयाणं भवे एयारूवे?,हंता सिया' इति _ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बहवे 'खुड्डा खुड्डियाओ वावीओ' इत्यादि तता त्रिसोपानप्रतिरूपकाणि तोरणानि पर्वतकाः पर्वतकेष्वासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिवीशिलापट्टकाः पूर्ववद् वक्तव्याः, तदनन्तरं चेदं वक्तव्यम्-'तत्थ णंबहवे उत्तरकुरा मणुस्सा मणुस्सीओय आसयंति सयंति जाव कल्लाणं फलवित्तिविसेसं पच्चणुभवमाणा विहरन्ति' एतद्वयाख्याऽपि प्राग्वत्। _ 'उत्तरकुराए णं भंते ! कुराए' इत्यादि, उत्तरकुरुषु णमिति पूर्ववत् कुरुषु तत्र तत्र देशे 'तहिं तहिं' इति तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः सरिकागुल्माः नवमालिकागुल्माः कोरण्ड० बन्धुवक० मनोवद्य० बीयक० बाण० कुब्जक० सिन्दुवार० जाति० मुद्गर० यूथिका० मल्लिका० वासन्तिक० वस्तुल०कस्तू० सेवाल० अगस्त्य० मगदन्ति० चम्पक० जाति० नवनातिका० कुन्द० महाकुन्द० सरिकादयो लोकतःप्रत्येतव्याः, गुल्मा नाम इस्वस्कन्ध-बहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनांचेमास्तिन :सङ्ग्रहणिगाथाः॥१॥ “सेरियए नोमालियकोरंटयबन्धुजीवगमणोज्जा । बीययबाणयकणवीरकुज तह सिंदुवारे य॥ ॥२॥ जाईमोग्गर तह जूहिया य तह मल्लिया य वासंती। वत्थुलकत्थुलसेवालगत्थिमगदंतिया चेव ॥ ॥३॥ चंपकजाईनवनाइया य कुंदे तहा महाकुंदे । एवमनेगागारा हवंति गुम्मा मुणेयव्वा ॥ 'तेणंगुम्मा' इत्यादि, 'ते' अनन्तरोदिताणमिति वाक्यालङ्कारेगुल्माः 'दशार्द्धवर्ण पञ्चवर्णं 'कुसुमं' जातावेकवचनं कुसुमसमूहं 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणांबहुसमरमणीयोभूमिभागो ‘वायविहुयग्गसालेहिं तिवातेन विधुताः-कम्पितावातविधुतास्ताश्च ता अग्रशाकाश्च वातविधुतानशाखास्ताभि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, मुक्तो यः पुष्पपुञ्जःसएवोपचार:-पूजा मुक्तपुष्पपुओपचारस्तेन कलितः श्रियाऽतीव उपशोभमानस्तिष्ठति __'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु तत्र तत्र देशे तस्य २ देशस्य तत्र तत्र प्रदेशे बहूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, हरुतालवनानि भेरुतालवनानि मेरुताल०शाल० सरलव० सप्तपर्ण० पूगीफली० खर्जूरी० नालिकेरीवनानि कुशविकुशविशुद्ध- वृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषणजातं जगत्युपरिवनषण्डकवर्णकवत्तावत्परिभावनीयं यावद् 'अनंगसगडरहजाणजोग्गगिल्लिथिल्लिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरिसणिज्जा अभिरुवा पडिरुवा इति, भेरुतालादयो वृक्षजातिविशेषाः शालादयः प्रतीताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy