________________
२८६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५ मेणं'तिपूर्वस्यां दिशिमाल्यवतो वक्षस्कारपर्वतस्यपश्चिमायाम् अत्र' एतस्मिन् प्रदेशे उत्तरकुरवो नामकुरवः प्रज्ञप्ताः,सूत्रएकवचननिर्देशोऽकारान्ततानिर्देशश्चप्राकृतत्वात्, ताश्च कथम्भूताः? इत्याह
‘पाईणे त्यादि,प्राचीनापाचीनायताउदग्दक्षिणविस्तीर्णाअर्द्धचन्द्रसंस्तानसंस्थिताएकादश योजनसहस्राण्यष्टौ योजनशतानि 'द्विचत्वारिंशानि' द्विचत्वारिंशदधिकानि द्वौचैकोनविंशतिभागी योजनस्य 'विष्कम्भेन' दक्षिणोत्तरतया विस्तारेण, तथाहि-महाविदेहे मेरोरुत्तरत उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततोयोमहाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भेशोधिते यदवशिष्यतेतस्यार्द्ध यावत्परिमाणमेतावप्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः,
उक्तंच- “वइदेवा विक्खंभा मंदरविक्खंभसोहियद्धं जं । कुरुविक्खंभंजाणसु" इति, सच यथोक्तप्रमाण एव, तथाहि-महाविदेहे विष्कम्भस्त्रयस्त्रिंश योजनसहस्राणिषट्शतानि चतुरशीत्यधिकानि योजनानां चतन कलाः कला एतस्मान्मेरुविष्कम्भो दश योजन-सहस्राणि शोध्यन्तेस्थितानि पश्चात्रयोविंशति सहस्राणिषट्शतानि चतुरशीत्यधिकानि योजनानांचतसः कलाः कला एतेषामढे लब्धान्येकादश हस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले कला।
___ 'तीसे' इत्यादि, तासामुत्तरकुरूणांजीवा उत्तरतो नीलवर्षघरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं यथाक्रमं माल्यवन्तं गन्धमादनंच 'स्पृष्टा' स्पृष्टवती, एतदेव भावयति-'पुरथिमिल्लाए' इत्यादि, पूर्वया 'कोटया' अग्रभागेन पूर्वं वक्षस्कारपर्वतं माल्यवदभिधानं स्पृष्टा' स्पृष्टवती पश्चिमया' पश्चिमदिगवलम्बिन्या कोटया पश्चिमवक्षस्कारपर्वतं गन्धमादनाख्यं स्पृष्टा, साचजीवाआयामेन त्रिपञ्चाशयोजनसहमणि, कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यांच दिशि भद्रशालवनस्य यदायामेन परिमाणं यच्च मेरोर्विष्कम्भस्य तदेकत्र मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्पपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां जीवायाः परिमाणम्, उक्तंच॥१॥ “मंदरपुव्वेणायय बावीस सहस्स भद्दसालवनं ।
दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवा।। तच्च यथोक्तप्रमाणमे, तथाहि-मेरोः पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनस्य दैर्ध्यपरिमाणं द्वाविंशतिर्योजनसहस्राणि, ततो द्वाविंशति सहस्राणि द्वाभ्यां गुण्यन्ते, जातानि चतुश्चत्वारिंशत् सहस्राणि मेरोश्च पृथुत्वपरिमाणंदश योजनसहस्राणि तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानिचतुष्पञ्चाशत्सहस्राणि गन्धमादनस्यमाल्यवतश्चवक्षस्कार-पर्वतस्य प्रत्येकं मूले पृथुत्वं पञ्च योजनशतानि, ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातंयोजनसहन, तत्पूर्वराशेपनीयते, जातानि त्रिपञ्चाशद योजनसहस्राणि।
'तीसे धणुपट्टमित्यादि, तासामुत्तरकुरूणांधनुःपृष्ठं 'दक्षिणेन दक्षिणतः, तच्चषष्टिर्योजनसहस्राणिचत्वारि योजनशतानिअष्टादशोत्तराणि द्वादश एकोनविंशतिभागायोजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादनमाल्यवद्वक्षस्कारपर्वतयोरायामपरिमाणमेकत्रमीलितमुत्तकुरूणांधनुःपृष्ठपरिमाणं, “आयामो सेलाणं दोण्ह व मिलिओ कुरूम धणुपटुं" इति वचनात्, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहसमणि द्वे शते नवोत्तरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org