________________
प्रतिपत्तिः - ३/दीव०
२८५ यथासुराष्ट्रेभ्यः संक्रान्तोमगधदेशं मागध इति, किञ्चित्पुनर्न तद्वयपदेशभाग्यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलियेष्ठैवेति, इहापिचजम्बूद्वीपचरमप्रदेशा लवणसमुद्रंस्पृष्टवन्तस्ततोव्यपदेशचिन्तायां संशय इति प्रश्नः, भगवानाह- गौतम ! जम्बूद्वीप एव णमिति निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाद्वीपो, जम्बूद्वीप-सामवर्तित्वात्, नखलुते जम्बूद्वीपचरमप्रदेशालवणसमुद्रः,जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्र-सीमानमुपगताः किन्तुस्वसीमागता एव लवणसमुद्रं स्पृष्टवन्तस्तेन तटस्थता संस्पर्शभावात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गुलिरिव ते स्वव्यपदेशं भजन्तेन व्यपदेशान्तरं, तथा चाह-नो खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्रः । एवं 'लवणस्स णं भंते ! समुद्दस्स पदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम्।
“जंबुद्दीवेणंभंते !' इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे ये जीवास्ते 'उद्दाइत्ता' इति अवद्राय २' मृत्वा २ लवणसमुद्रे प्रत्यायान्ति' आगच्छन्ति?, भगवानाह-गौतम ! अस्तीति निपातोऽत्र - बह्वर्थ, सन्त्येकका जीवा ये 'अवद्रायावद्राय' मृत्वा २ लवणसमुद्रे प्रत्यायान्ति, सन्त्येकका येन प्रत्यायान्ति, जीवानांतथा तथा स्वस्वकर्मवशतया गतिवैचित्रयसम्भवात्॥एवं लवणसूत्रमपि भावनीयं । सम्प्रति जम्बूद्वीप इति नाम्नो निबन्धनं जिज्ञासिषुः प्रश्नं करोति
-:उत्तरकरुवर्णनं:मू. (१८५) से केणट्टेणं भंते ! एवं वुच्चति जंबूद्दीवे २?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं उत्तरकुरा नाम कुरा पन्नत्ता, पाईणपडीणायता उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिताएक्कारसजोयणसहस्साइं अट्ठ बायालेजोयणसते दोण्णि य एकोणवीसतिभागे जोयणस्स विक्खंभेणं ।
तीसे जीवापाईणपडीणायतादुहओवक्खारपव्वयंपुट्ठा, पुरथिमिल्लाएकोडीए पुरथिमिलं वक्खारपव्वतंपुट्ठा पच्चथिमिल्लाएकोडीए पञ्चथिमिल्लंवक्खारपव्वयंपुट्ठा, तेवण्णंजोयणसहस्साई आयामेणं, तीसे धणुपट्टं दाहिणेणंसटुिंजोयणसहस्साइंचत्तारियअट्ठारसुत्तेर जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पन्नत्ते।
उत्तरकुराए णं भंते ! कुराए केरिसए आगारभावपडोयारे पन्नते?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पन्नते, से जहा नामएआलिंगपुरखरेति वाजवएवंएकोख्यदीववत्तव्बया जाव देवलोगपरिग्गहाणं ते मणुयगणा पन्नत्ता समणाउसो!।
नवरि इमं नाणतं-छधणुसहस्समूसिता दोछप्पन्ना पिट्टकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पज्जति तिन्नि पलिओवमाइंदेसूणाइंपलिओवमस्सासंखिजइभागेण ऊणगाईजहन्नेणं तिन्नि पलिओवमाइं उक्कोसेणं एकूणपन्नराइंदियाइं अणुपालणा, सेसं जहा एगूरुयाणं।
उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसजंति, तंजहा-पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ तेयालीसे ५ सणिच्चारी ६।।
वृ. 'से केणतुणं भंते !' इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपोद्वीपः? इति, भगवानाह-जम्बूद्वीपेणमिति वाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य उत्तरेण' उत्तरतः नीलवतोवर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कारपर्वतस्य 'पुरस्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org