________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/१८३
व्यतिव्रज्येति वाच्यम् । सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह'जंबुद्दीवस्स ण' मित्यादि, प्राग्वत् भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियप्रमाणा - बाधया - अन्तरित्वा प्रतिघातेनान्तरं प्रज्ञप्तम् ?, भगवानाह - गौतम ! एकोनाशीतियजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य च द्वारस्य चाबाधयाऽन्तरं प्रज्ञप्तं, तथाहि - चतुर्णामपि द्वाराणां प्रत्येकमेकैकस्य कुड्यस्य द्वारशाकापरपर्यायस्य बाहल्यं गव्यूतं द्वाराणां च विस्तारः प्रत्येकं २ चत्वारि २ योजनानि, ततश्चतुर्ष्वपि द्वारेषु सर्वसङ्ख्यया कुडयद्वारप्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च पिरिधिस्तिस्र लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके क्रोशत्रयं अष्टाविंशं धनुः शतं त्रयोदशाङ्गुलानि एकमर्धाङ्गुल मिति ।
२८४
अस्माच्च जम्बूद्वीपपरिधेः सकाशात्तानि कुडयद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषु च तेषु परिधिसत्को योजनराशिरेवंरूपो जातः - तिम्रोलक्षाः षोडश सहस्राणि द्वे शते नवोत्तरे शेषं तथैव, ततो योजनराशेश्चतुर्भिर्भागो हियते, लब्धानि योजनानामेकोनाशीति सहस्राणि द्विपञ्चाशदधिकानि गव्यूतं चैकं क्रोशं १, यानि च परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुसत्वेन क्रियन्ते लब्धानि धनुषां षट् सहस्राणि यदपि च परिधिसत्कमष्टाविंशं धनुः शतं तदप्येतेषु धनुःषु मध्ये प्रक्षिप्यते, ततो जातो धनूराशिरेकषष्टि शतान्यष्टाविंशत्यधिकानि एषां चतुर्भिर्भागो ह्रियते, लब्धानि धनुषां पञ्चदश शतानि द्वात्रिंशदधिकानि यान्यपि च त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अङ्गुलानि, एतदपि सर्वं देशोनमेकं गव्यूतमिति लब्धं देशोनमर्द्धयोजनं, उक्तं च
|| 9 ||
॥२॥
"कुड्डदुवारपमाणं अट्ठारस जोयणाई परिहीए । सोहिय चउहि विभत्तं इणमो दारंतरं होई || अउणासीइ सहस्सा बावन्ना अद्धजोयणं नूनं । दारस्स य दारस्स य अंतरमेयं विनिद्दिवं ॥
मू. (१८४) जंबुद्दीवस्स णं भंते! दीवस्स पएसा लवणं समुद्दं पुट्ठा ?, हंता पुट्ठा ॥ ते णं भंते! किं जंबुद्दीवे २ लवणसमुद्दे ?, गोयमा ! जंबुद्दीवे दीवे नो खलु ते लवणसमुद्दे ।
लवणस्स णं भंते! समुद्दस्स पदेसा जंबूद्दीवं दीवं पुट्ठा ?, हंता पुट्ठा। ते णं भंते! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा ! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ।
जंबुद्दीवे णं भंते! देवी जीवा उद्दाइत्ता २ लवणसमुद्दे पच्चायंति ?, गोयमा ! अत्थेगतिया पच्चायंति अत्थेगतिया नो पच्चायंति । लवणे णं भंते! समुद्दे जीवा उद्दाइत्ता २ जंबुद्दीवे २ पच्चायंति ?, गोयमा ! अत्थेगतिया पच्चायंति अत्थेगतिया नो पच्चायंति ॥
बृ. ‘जंबूद्दीवस्स णं भंते!' इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः ' स्वसीमागतचरमरूपा लवणं समुद्रं 'स्पृष्टाः ?' कर्तरि क्तप्रत्ययः स्पृष्टवन्तः, काक्वा पाठ इति प्रश्नार्थत्वावगति, पृच्छतश्चायमभिप्रायः - यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेत्तर्हि नेति भावः, भगवानाह - हंतेत्यादि, 'हन्त' इति प्रत्वधारणे स्पृष्टाः ।
एवमुक्ते भूयः पृच्छति - 'ते ण 'मित्यादि, ते भदन्त ! स्वसीमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीपः ? किंवा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तद्वयपदेशमश्नुवानमुपलब्धं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org