________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १७६
वृ. 'तस्स णं बहुसमरमणीयस्स भूमिभागस्से' त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा' इत्यादि प्राग्वत् । 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, अर्द्धष्टमानि - सार्द्धानि सप्त योजनान्यर्द्धमुच्चैस्त्वेन अर्द्धक्रोशं धनुः सहस्रमानमुद्वेधेन, अर्द्धक्रशं विष्कम्भेन षडस्रिकः - षटकोटीकः षड्विग्रहिकः 'वइरामयवट्टलट्ठसंठिए' इत्यादि महेन्द्रध्वजवद् वर्णनमशेषमस्यापि तावद्वक्तव्यं यावद् 'बहवो सहस्पत्तहत्थगा सव्वरणामया अच्छा जाव पडिरूवा' इति ।
२५४
'तस्स ण 'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि षट् क्रोशान् अवमाह्य उपरितनभागात् षट् क्रोशान् वर्जयित्वेति भावः, अधस्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं च प्राग्वत् ।
'तेसु ण' मित्यादि, तेषु रजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ताः समुद्रकाः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति तानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना गाननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि । 'तस्स ण 'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अच्चा' इत्यादि प्राग्वत् ।
'तीसे ण' मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् । 'तस्स ण'मित्यादि, तस्य माणवकना म्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिकाया उपरि अत्र महदेकं (देव) शयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्यायमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - नानामणिमयाः प्रतिपादाः - मूलपादानां प्रतिविशिष्टोपष्टमभ्करणाय् पादाः प्रतिपादाः 'सौवर्णिकाः' सुवर्णमयाः ‘पादाः’ मूलपादाः, जाम्बूमदमयानि गात्राणि - ईषादीनि वज्रमया वज्ररत्नपूरिताः सन्धयः, 'नानामणिमये चिच्चे' इति चिच्चं नाम च्युतं वानमित्यर्थ, नानामणिमयं च्युतं विशिष्टवानं रजतमयी तुली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधआनखआनइष आह च मूलटीकाकारः“विव्वोयणा – उपधानकानि उच्यन्त' इति, तपनीयमय्यो गण्डोपधानकाः ।
सेणं देवणिजे ' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्त्तिकं' सह आलिङ्गनवर्त्याशरीरप्रमाणेनोपधाने यद् तत्तथा 'उभओविव्वोयणे' इति उभयतः उभौ – शिरोऽन्तपादान्तावाश्रिय् विव्वोयणे – उपधाने यत्र यद् उभयतोविव्वोयणं 'दुहतो उन्नते' इति उभयत उन्नतं 'मज्झेणयगंभीरे' इति, मध्ये च नतं निम्नत्वाद् गम्भीरं च महत्वात् नतगम्भीरं गङ्गालिनवालुकाया अवदालो - विदलनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इत सध्शकं गङ्गापुलिनवालुकावदालसध्र्श, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौमं - कार्पासिकं दुकूलं वस्तंर तदेव पट्ट ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं - आच्छादनं यस्य तत्तथा, 'आईणगरूयबूरनवनीयतूलफासे' इति प्राग्वत्, 'रत्तसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतम्, अत एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org