________________
प्रतिपत्तिः-३, दीव०
२४९
शयोजनान्यायामेनषट्सक्रोशानियोजनानि विष्कम्भेननव योजनानिऊर्द्धमुच्चैस्त्वेन ‘अप्पेगे'त्यादि अनेकेषुस्तम्भशतेषु सन्निविष्टाअनेकस्तंभशतसन्निविष्टा ‘अब्भुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलियविमलखंभा' अभ्युद्गता-अतिरमणीयतया द्रष्टणांप्रत्यभिमुखमुत्-प्राबल्येन स्थितासुकृतेव सुकृता निपुणशिल्पिरचितेवेतिभावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका-द्वारमुण्डकोपरि वज्ररत्नमयी वेदिका तोरणं चाभ्युद्गतसुकृतं यत्र सा तथा, तथा वराभि-प्रधानाभि रचिताभि-विरचिताभि रतिदाभिर्वा सालमञ्जिकाभि सुश्लिष्टा-संबद्धा विशिष्टं-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताःप्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भाः-वैडूर्यरत्नमयाः स्तम्भा यस्यांसा वररचितशालभञ्जिकासुश्लिष्टविसिष्टसंस्थितप्रशस्तवैडूर्यस्तम्भा।
ततःपूर्वपदेन कर्मधारयः, तथानानामणिकनकरत्लानिखचितानियत्रसनानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनकरत्नखचितः उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निबिडो रमणीयश्च भूमिभागो यस्यांसा नानामणिकनकरलखचितोज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा'ईहामिगउसहतुरगनरमगरविहवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति तथा स्तम्भोद्गतयास्तम्भोपरिवर्त्तिन्यावज्रवेदिकया-वज्ररत्नमय्या वेदिकयापरिगतासतीयाऽभिरामा स्तम्भोद्तवज्रवेदिकापरिगताभिरामा 'विजाहरजमलजुगलजंतजुत्ताविव अच्चिसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इतिप्राग्वत् ‘कंचणमणिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका-शिखरं यस्याः सा काञ्चनमणिरत्नस्तूपिकाका।
_ 'नाणाविहपंचवणणघंटापडागपरिमंडियग्गसिहरा' नानाविधाभि-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिपताकाभिश्च परि-सामस्त्येनमण्डितमनशिखरंयस्याःसानानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरा धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद्भूमेोमयादिना उपलेपनम् उल्लोइयं-कुष्ठयानांमालस्य च सेटिकादिभिः संमृष्टीकरणं लाउल्लोइयं ताभ्यामिव महिता-पूजिता लाउल्लोइयमहिता, तथा गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दद्दरण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्रसागोशीर्षकसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला,तथा उपचितानिवेशिता वन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा ‘चंदनघडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यांसा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा।
तथा 'आसत्तोसत्तवट्टवग्घारिय मल्लदामकलावा' इति आ-अवाङ् अधोभूमौ सक्त आसक्तोभूमौलग्नइत्यर्थः ऊर्ध्व सक्त उत्सक्तः-उल्लोचतलेउपरिसंबद्ध इत्यर्थ, विपुलो-विस्तीर्ण वृत्तो-वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः-पुष्पामालासमूहो यस्यां सा आसक्तोत्सक्तविपुलवृत्तवग्धारितमाल्यदामकलापा, तथापञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org