SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७४ मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजयाकलिता पञ्चवर्णसरससुरभिमुक्तपुष्पपुओपचारकलिता 'कालागुरुपवरकुन्दुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया' इति प्राग्वत्, ‘अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानं सङ्घः-समुदायस्तेन सम्यग्--रमणीयतया विकीर्णाव्याप्ता 'दिव्वतुडियसद्दसंपणादिया' इति दिव्यानां त्रुटितानांआतोद्यानांवेणुवीणामृदङ्गादीनां येशब्दास्तैः सम्यक्-श्रोत्रमनोहारितयाप्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता ‘अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत्।। तीसेणं सभाएण'मित्यादि, सभायाः सुधर्मायाः 'त्रिदिशि तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एकं पूर्वस्यामेकंदक्षिणस्यामेकमुत्तरस्याम्। 'तेणंदारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येकं द्वे द्वे योजने ऊर्द्धमुच्चैस्त्वेन योजनमेकं विष्कम्भेन 'तावइयं चेवे'तियोजनेकंप्रवेशेन 'सेयावरकणगथूभियागा' इत्यादिप्रागुक्तंद्वारवर्णनं तदेतावद्वक्तव्यं यावद्वनमाला इति ।। 'तेसि णमित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येक मुखमण्डपः प्रज्ञप्त-,तेचमुखमण्डपाअर्द्धत्रयोदशयोजनानि आयामेन, षड्योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वंमुच्चैस्त्वेन, एतेषामपि ‘अनेगखंभसयसन्निविट्ठा' इत्यादि वर्णनं सुधायाः सभायाइव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्श :प्राग्वत्।। 'तेसिण'मित्यादि, तेषांमुखण्डपानामुपिअष्टावष्टौमङ्गलकानि-स्वस्तिकादीनिप्रज्ञप्तानि, तान्येवाह-'तंजहे'त्यादि, एतच्च विशेषणं सुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषांमुखमण्डपानांपुरतःप्रत्येकं २ प्रेक्षागृहमण्डपःप्रज्ञप्तः, तेऽपिच प्रेक्षागृहमण्डपाअर्द्धत्रयोदश योजनान्यामेन, सक्रोशानि षड् योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन, प्रेक्षागृह- मण्डपानांच भूमिभागवर्णनं पूर्ववत्तावद्वाच्यं यावन्मणीनां स्पर्शः। 'तेसि ण'मित्यादि, तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमयः ‘अक्षपाटकः' चतुरस्राकारः प्रज्ञप्तः, तेषांचाक्षपाटकानांबहुमध्यदेशभागेप्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमईओ' इति सर्वात्मना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ॥ 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञपतानि, कृष्णमरध्वजादि च प्राग्वद्वक्तव्यम् । ___ 'तेसि णमित्यादि, तेषां प्रेक्षागृहमण्डपानांपुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः प्रत्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् ।। 'तासि ण'मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं चैत्यस्तूपाः प्रज्ञप्ताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां शङ्खाङ्ककुन्ददकरजोऽमृतमथितफेनपुञ्जसंनिकाशाः सर्वात्मना रत्नमया अच्छाःश्लक्ष्णा इत्यादिप्राग्वत् ।। तेसिण'मित्यादि, तेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृषमचामरध्वजा इत्यादि प्राग्वत् ‘तेसि ण'मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषुदिक्ष एकैकस्यादिशि एकैकमणिपीठिकाभावेनचतन मणिपीठिकाः प्रज्ञप्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy