________________
२२
॥
॥
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१४ स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ।" साचषोढा, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्यापद्मलेश्या शुक्ललेश्या च, आसांच स्वरूपं जम्बूफलाखादकषट्पुरुषषष्टान्तेनैवावसातव्यम्॥१॥ "पंथाओ परिभट्ठा छप्पुरिसा अडविमज्झयारंमि।
जंबूतरुस्स हेट्ठा परोप्परं ते विचिंतेति॥ ॥१॥ निम्मूलखंधसाला गोच्छे पक्के य पडियसडियाई।
जह एएसिं भावा तह लेसाओवि नायव्वा । अमीषांचसूक्ष्मपृथिवीकायिकानामतिसंक्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मेष्वनुत्पादाच्चाद्या एव तिम्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति।
गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह-'तेसिण'मित्यादि, इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इतिनम्, इन्दनादिन्द्रः-आत्मा सर्वोपलब्धिरूपपरमैश्वर्ययोगात्तस्य लिङ्ग-चह्नमविनाभाविइन्द्रियम्, 'इन्द्रिय'मिति निपातनसूत्राद्रूपनिष्पत्ति, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियंचक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, द्रव्येन्द्रियं द्विधा-निवृत्तिरूपमुपकरणरूपंच, तत्रनिवृत्ति म प्रतिविशिष्टः संस्थानविशेषः, साऽपिद्विधाबाह्याऽभ्यन्तराच, तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टु शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी भ्रुवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्ति सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावर्तिषत
“सोइंदिए णं भंते किंसंठाणसंठिए पन्नत्ते?, गोयमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिएणंभंते! किंसंठाणसंठिए पन्नत्ते?, गोयमा! मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते?, गोयमा ! अइमुत्तसंठाणसंठिए पन्नत्ते, जिभिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते?, गोयमा! खुरप्पसंठाणसंठिएपन्नत्ते, फासिदिएणंभंते! किंसंठाणसंठिए पन्नत्ते?, गोयमा! नाणासंठाणसंठिए पन्नत्ते॥" इति। __इह स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्वार्थमूलटीकायामनभ्युपगमात्, उपकरणंनाम खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारास्थानीया स्वच्छतरपुद्गलसमूहात्मिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिवृत्त द्रव्यादिनोपकरणस्योपघातसम्भवात्, तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तराय निर्वृत्तौ महाकठोरतरघनगर्जितादिनाशक्त्युपघातेसतिनपरिच्छेतुमीशतेजन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूप चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमवगन्तव्यं, तदेवाधिकृत्ट व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इह भावेन्द्रियपञ्चकविज्ञानसमन्विता अनुमानत प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इथि व्यवह्रियन्ते, बाह्येन्द्रियपञ्चकासम्भवात्, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org