________________
प्रतिपत्तिः-१,
२१
बन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं संहननं ३, यत्र पुनरेकपार्वे मर्कटबन्धो द्वितीये च पार्श्वे कीलिका तदर्द्धनाराचं चतुर्थं संहननं ४, तथा यत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं पञ्चमं संहननं ५, तथा यत्रास्थीनि परस्परं छेदेन वर्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्ति, तच्च प्रायो मनुष्यादीनां नित्यं स्नेहाभ्यङ्गादिरूपां परिशीलानामपेक्षते ६।
इत्थंषोढा संहननसम्भवेसंशयः-तेषांशरीराणि किंसंहननानिप्रज्ञप्तानि? इति, भगवानाह गौतम! छेदवतिसंहननानि प्रज्ञप्तानि, अयमत्राभिप्रायः यद्यपिसूक्ष्मपृथिवीकायिकानामस्थ्यभावस्तथाऽप्यौदारिकशरीरिणामस्थ्यात्मकेन संहननेनयः शक्तिविशेष उपजायतेसोऽप्युपचारासंहननमिति व्यवह्रियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यत्योदारिकशरीरित्वात्, जघन्यश्च शक्तिविशेषश्छेदवर्तिसंहननविषय इति तेषामपि छेदवर्तिसंहननमुक्तम् ।। गतं संहननद्वारं, सम्प्रति संस्थानद्वारमाह
___ 'तेसिणं भंते !' इत्यादि सुगम, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य-धान्यविशेषस्य यच्चन्द्राकृति दलं स मसूरकचन्द्रस्त्वदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ-इह जीवानांषट् संस्थानानि, तानिच समचतुरस्रादीनि वक्ष्यमाणलक्षणानि, तेषामाद्यानि पञ्चसंस्थानानिमसूरचन्द्रकाकारेनसंभवन्ति, तल्लक्षणायोगात्, ततइदं मसूरचन्द्रकाकारं संस्थानं हुण्डं प्रतिपत्तव्यं, सर्वत्रासंस्थितत्वरूपस्य तल्लक्षणस्य योगात्, जीवनां संस्थानान्तराभावाच्च, आह च मूलटीकाकारः-“संस्थानं मसूरचन्द्रकसंस्थितमपि हुण्डं, सर्वत्रासंस्थितत्वेन तल्लक्षणयोगात्, जीवानां संस्थानान्तराभावाच्चे"ति ।।गतं संस्थानद्वारमधुना कषायद्वारमाह
'तेसिणंभंते !' इत्यादि, तेषां भदन्त ! सूक्ष्मपृथ्वीकायिकानां कति कषायाः प्रज्ञप्ताः?, तत्र कषाया नाम कष्यन्ते-हिंस्यन्तेपरस्परमस्मिन्प्राणिनइति कषः-संसारस्तमयन्ते-गच्छन्त्येधिजन्तवइति कषायाः-क्रोधादयः परिणामविशेषाः, तथा चाह-‘गोयमे' त्यादिसुगम, नवरंक्रोधःअप्रतीपरिणामःमानो-गर्वपरिणामः माया-निकृतिरूपा लोभो-गार्यलक्षणः, एतेचक्रोधादयोऽमीषां मन्दपरिणामतयाऽनुपदर्शितबाह्यशरीरविकारा एवानाभोगतस्तथा तथा वैचित्र्येण भवन्तः प्रतिपत्तव्याः । गतं कषायद्वारं संज्ञाद्वारमाह
"तेसिण' मित्यादि सुगम, नवरं संज्ञानं सज्ञा, सा च द्विधा-ज्ञानरूपाऽनुभवरूपाच, तत्र ज्ञानरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदात्पञ्चप्रकारा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवसंज्ञा-स्वकृतासातवेदनीयादिकर्मविपाकोदयसमुत्था, इह प्रयोजनम नुभवसंज्ञया, ज्ञानसंज्ञायास्तद्दारेण परिगृहीतत्वात, तत्राहारसंज्ञाञानाम आहाराभिलाषः क्षुद्वेदनीयप्रभवः स्वल्वात्मपरिणामविशेषः, एषा चासातवेदनीयोदयादुपजायते, ‘भयसंज्ञा' भयवेदनीयोदयजनितत्रासपरिणामरूपा, परिग्रहसंज्ञा' लोभविपाकोदयसमुत्थ- मूपिरिणामरूपा, 'मैथुसंज्ञा' वेदोदयजनिता मैथुनाभिलाषः, एताश्चतस्रोऽपि मोहनीयोदय-प्रभवाः, एता अपि सूक्ष्मपृथ्वीकायिकानामव्यक्तरूपाः प्रतिपत्तव्याः।
गतं संज्ञाद्वारमधुना लेश्याद्वारमाह-'तेसिणमित्यादि सुगम, नवरं लिश्यति-श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या-कृष्णादिद्रव्यसाचिव्यादात्मनःशुभाशुभपरिणामः, उक्तंच
॥१॥ “कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org