________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१४
एतच्चाहारकं कदाचनापि लोके सर्वथाऽपि न भवति, तच्चाभवनं जघन्यत एकं समयमुत्कर्षतः षण्मासान् यावत्, उक्तं च
119 11
२०
“आहारगाइ लोगे छम्मासा जा न होंतिवि कयाई । उक्कोसेणं नियमा एक्कं समयं जहन्नेणं ॥"
आहारकं च शरीरं वैक्रियशरीरापेक्षयाऽयन्मशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहात्मकं ३, तथा तेजसां - तेजः पुद्गलानां विकारस्तैजसं 'विकार' इत्यण्, तत् औष्मलिङ्गं भुक्ताहारपरिणमनकारणं, ततश्च विशिष्टतपःसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमः, उक्तंच“सव्वस्स उम्हसिद्धं रसाइआहारपाकजणगं च । तेयगलद्धिनिमित्तं च तेयगं हइ नायव्वं ॥ ४ ।
119 11
तथा कर्मणो जातं कर्मजं, किमुक्तं भवति ? - कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजं शरीरमिति, अत एवैतदन्यत्र कार्मणमित्युक्तं कर्मणो विकारः कार्मणमिति, तथा चोक्तम्
119 11
“कम्मविकारो कम्मणमट्ठविहविर्चित्तकम्मनिष्पन्नं । सव्वेसिं सरीराणं कारणभूयं मुणेयव्वं ॥
अत्र ‘सव्वेसि’मति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषिशेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं - बीजभूतं कार्मणं शरीरं, न खल्वामूलमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसङ्क्रान्तौ साधकतमं कारणं, तथाहिकर्मजेनैव वपुषा तैजससहितेन परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि तैजससहितकार्मण वपुः परिकरितो गत्यन्तरं संक्रमति तर्हि स गच्छन्नागच्छन् कस्मान्न दृष्टिपथमवतरति ?, उच्यते, कर्मपुद्गलानां तैजसपुद्गलानां चातिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीर्थिकैरप्युक्तम्119 11
"अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन् वाऽपि नाभावोऽनीक्षणादपि ॥"
एतेषां पञ्चानां शरीराणां मध्ये यानि त्रीणि शरीराणि सूक्ष्मपृथिवीकायिकानां तानि नामग्राहमुपदर्शयति - तंजहा - ओरालिए तेयए कम्मए, वैक्रियाहारके तु तेषां न संभवतो, भवस्वभावत एव तल्लब्धिशून्यत्वात् । अघुनाऽवगाहनाद्वारमाह- 'तेसिणं भंते!' इत्यादि सुगमं, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादु- त्कृष्टपदमधिकमवसातव्यम् ।
संहननद्वारमाह-तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रज्ञप्तानि ?, संहननं नामास्थिनिचयरूपं तच्च षोढा, तद्यथा-वज्रऋषभनाराचं ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका छेदवर्त्तिच, तत्र वज्रं - कीलिका ऋषभः - परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्थोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृति गच्छता तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वऋषभनाराचसंज्ञं प्रथमं संहननं १ यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्थोर्मर्कट
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International