________________
१९
प्रतिपत्तिः-१,
वृ. 'तेषां सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे ‘भदन्त!' परमकल्याणयोगिन् कति शरीराणिप्रज्ञप्तानि?, अथ कः कमेवमाह?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेत विनिश्चीयते इतिचेद्, उच्यते, निर्वचनसूत्रात्, ननुगौतमोऽपि भगवान् उपचितकुशलभूलो गणधरस्तीर्थकरभाषित मातृकापदत्रयश्रवणमात्रावाप्तप्रकृष्ट श्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वदिद् विवक्षितार्थपरिज्ञानसमन्वित एव ततः किमर्थं पृच्छति?
तथाहि-नचतुर्दशपूर्वविदः प्रज्ञापनीयं किञ्चिदविदितमस्ति, विशेषतः सर्वाक्षरसंनिपातिनः संभिन्नश्रोतसो भगवतो गणभृतः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्य, उक्तंच॥१॥ “संखातीते विभवे साहइ जंवा परो उ पुच्छेज्जा ।
नयणं अणाइसेसी वियाणई एस छउमत्थो॥" उच्यते, शिष्यसंप्रत्ययार्थं, तथाहि-जानन्नेवभगवान् अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरप्रश्नतीर्थकरनिर्वचनरूपं किञ्चित्सूत्रमितीत्यमधिकृतसूत्रकारः सूत्ररचितवान्, यदिवा समवतिभगवतोऽपिस्वल्पोऽनाभोगः छद्मस्थत्वादिति पृच्छति, उक्तंच॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति।
ज्ञानावरणीयं हि ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म॥" इति कृतंप्रसङ्गेन, प्रस्तुतमुच्यते, भगवानाह-गोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधाययेनामन्त्रणध्वनिनाऽऽमन्नयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह्यविनेयस्य धर्म कथनीयः, इत्यमेव सम्यकप्रतिपत्तियोगादिति, त्रीणि शरीराणि प्रज्ञप्तानि, इह शरीराणि पञ्च भवन्ति , तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं कार्मणं च, तत्रोदारं-प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरसुरशरीस्यापिअनन्तगुणहीनत्वात्, यद्वा उदारं सातिरेकयोजनसहनमानत्वात् शेषशरीरापेक्षया बृहप्रधानं, बृहत्ता चास्य वैक्रियं प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेव औदारिकं, विनयादिपाठादिकण १।
तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, तथाहि-तदेकं भूत्वाऽनेकं भवति अनेकं भूत्वा एकं तथाऽणुभूत्वा महद्भवति महच्च भूत्वाऽणुतथा खचरं भूत्वा भूमिचरं भवतिभूमिचरंभूत्वाखचरंतथा दृश्यं भूत्वाऽश्यंभवतिअश्यंभूत्वा श्यमिति, तच्च द्विविधम्
औपपातिकंलब्धिप्रत्ययंच, तत्रोपपातिकमुपपातजन्मनिमित्तं, तच्च देवनारकाणां, लब्धिप्रत्ययं तिर्यग्मनुष्याणां२, तथा चतुर्दशपूर्वविदां तीर्थकरस्फादिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाहियते-निर्वर्तयते इत्याहारकं, “कृद्धहुल्कमिति वचनात्कर्मणि वुञ्, यथा पादहारक इत्यत्र, उक्तंच॥१॥ “कजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए।
जं एत्थ आहरिज्जा भणंति आहारगंतंतु॥
_ -कार्यं चेदम्॥१॥ “पाणिदयरिद्धिदंसण सुहुमपयत्थावगाहहेउं वा ।
संसयवोच्छेयत्थं गमणं जिनपायमूलंमि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org