________________
प्रतिपत्तिः-१, ॥१॥ “पंचेंदिओ उ बउल नरो व्व सव्वविसओवलंभाओ।
तहविन भण्णइपंचिंदिउत्ति बज्झिंदियाभावा ।" -ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह- गोयमे'त्यादि सुगमम् । गतमिन्द्रियद्वारमधुना समुद्घातद्वारं, तत्र समुद्घाताः सप्त, तद्यथा-वेदनासमुद्घातः १ कषायसमुद्घातः२ मारणसमुद्घातः ३ वैक्रियसमुद्घातः ४ तैजसमुद्घातः ५आहारकसमुद्घातः ६ केवलिसमुद्घातश्च७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः, सचासातवेदनीयकर्माश्रयः १, कषायेण-कषायोदयेनसमुद्घातःकषायसमुद्घातः, सच कषायचारित्रमोहनीयकर्माश्रयः २, मरणे भवोमारणः, सचासौ समुद्घातश्च मारणसमुद्घातः ३, वैक्रिये प्रारभ्यमामे समुद्घातोवैक्रियसमुद्घातः, सच वैक्रियशरीरनामकर्माश्रयः ४, (तैजसेनहेतुभूतेन समुद्घातस्तैजसमुद्घातः तैजसशरीरनामकर्माश्रयः)५, आहारकेप्रारभ्यमाणे समुद्घातआहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः ६, केवलिनि अन्तर्मुहूर्तभाविपरमपदे समुद्घातः केवलिसमुद्घातः७।
अथ समुद्घात इतिकः शब्दार्थ?, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदा आत्मा वेदनादिसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम् ? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मपुद्गलान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूयानुभूय निर्जरयति, आत्मप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आत्म वेदनीयकर्मपुद्गलपरिशातंकरोति, तथाहि-वेदनाकरालितो जीवः स्वप्रदेशानन्तानन्तकर्मपरमाणुवेष्टितान्शरीराबहिरपि विक्षिपति, तैश्चप्रदेशैर्वदनजघनादिरन्ध्राणिकर्णस्कन्धाद्यन्तरालानि चापूर्यायामतोविस्तरतश्चशरीरमात्र क्षेत्रमभिव्याप्यान्तर्मुहूर्तयावदवतिष्ठते, तस्मिंश्चान्त{हूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्मपुद्गलपरिशातां करोति।
तथाहि-कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैर्वदनोदरादिरन्ध्राणि कर्णस्कन्धायन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्त्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशातंकरोति,एवं मरणसमुद्घातगत आयुःकर्मपुद्गलपरिशातंकरोति, वैक्रियसमुद्घातगतः पुनर्जीवः स्वप्रदेशान् शरीराबहिर्निष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्ख्येययोजनप्रमाणंदण्डंनिसृजति, निसृज्यचयथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान्शातयति, तथा चोक्तम्-“वेउब्वियसमुग्घाएणंसमोहणइ २ त्ता संखिज्जाइं जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ" इति।
तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसाव्यौ, केवलं तैजससमुद्घातगतस्तैजशरीरनामकर्मपुद्गलपरिशातं करोति, आहारकसमुद्घातगतआहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेदनीयशुभाशुभनामोच्चनीचैर्गोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जा शेषाः षडपि समुद्घातः प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम्-“वेयमासमुग्घाए णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org