SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० २४१ 'व्यतिव्रज्य' अतिक्रम्यअत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामप्यसङ्खयेयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्ययोग्या विजया नाम राजधानीप्रज्ञप्तामयाशेषैश्च तीर्थकृभिः, साचद्वादशयोजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदंचपरिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात्स्वयमानेतव्यम्। ‘सा ण मित्यादि, 'सा' विजयाभिधाना राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण ‘सर्वतः' सर्वासु दिक्षु “समन्ततः' सामस्त्येन परिक्षिप्ता ।। ‘से ण मित्यादि, स प्राकारः सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्धमच्चैसत्वेन मूलेऽर्द्धत्रयोदशयोजनानि विष्कम्भेनमध्ये षड् योजनानि सक्रोशानि-एकेन क्रोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धक्रोशानि योजनानिसार्द्धानि द्वादशअर्द्धक्रोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य त्रुटितत्वात्, उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात्, बहिर्वृत्तोऽन्तश्चतुरन गोपुच्छसंस्थानसंस्थितः' ऊर्वीकृतगोपुच्छसंस्थानसंस्थितः सव्वकणगमए' सर्वात्मना कनकमयः 'अच्छे' इत्यादि विशेषणजातं प्राग्वत्। ‘से ण मित्यादि, स प्राकर नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवणपिक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णत्वमेवोपदर्शयति-'किण्हेहिं' इत्यादि॥ तेणं कविसीसगा' इत्यादि, तानिकपिशीर्षकाणिप्रत्येकमर्द्धकशंधनुःसहस्रप्रमाणमायामेन-दैर्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रशमूर्द्धमुच्चैस्त्वेन 'सव्वमणिमया' इत्यादि सर्वात्मना मणिमया 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्। 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्याएकैकस्यांबाहायां पञ्चविंशंपञ्चविंशत्यधिकं द्वारशतं २ प्रज्ञप्तं, सर्वसङ्ख्यया पञ्च द्वारशतानि ।। ते पंदारा' इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्टियोजनानि अर्द्धयो चोर्द्धमुच्चैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, ‘तावइयं चेव पवेसेणं' एतावदेव-एतत्रिंशन योजनानि क्रोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेषं तावद्वक्तव्यं यावद्वनमालावर्णनम् । 'तेसि णं दाराणमित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विघातो' द्विप्रकारायं नैषेधिक्यां द्वौ द्वौ 'प्रकण्ठको' पीठविशेषौ प्रज्ञप्ती, ते च प्रकण्ठकाः प्रत्येमेकत्रिंशतं योजनानि क्रोशमेकंच आयामविष्कम्भाभ्यां, पञ्चदशयोजनानि अर्द्धतृतीयांश्च क्रोशान् बाहल्येन ‘सव्ववइरामया' इति सर्वात्मनाते प्रकण्ठका वज्ररत्नमयाः ‘अच्छा सण्हा' इत्यादिविशेषणजातंप्राग्वत्॥'तेसिंपगंठगाण'मित्यादि, तेषांप्रकण्ठकानामुपरिप्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः। ___ते णं पासायवडेंसगा' इत्यादि, ते प्रासादावतंसका एकत्रिंशतं योजनानि क्रशं चैकमूर्ध्वमुच्चैस्तेवन,पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रशान् आयामविष्कम्भाभ्यां, तेषां च प्रासादानाम् ‘अब्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यतः स्वरूपवर्णनम् उल्लोकवर्णनं 916 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy