SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २३९ वृ.‘से केणडेणं भंते ! एवं वुच्चई' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गोयमे'त्यादि, गौतम! विजयेद्वारे विजयोनाम,प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थः-प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देवः 'महर्द्धिकः' महती ऋद्धिः-भवनपरिवारादिकायस्यासौमहर्द्धिकः ‘महाद्युतिकः' महतीधुतिशरीरगताआभरणगता च यस्यासौ महाधतिकः तथा महद बलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यशःख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धिर्यस्य स महेशाख्यः, अथवा ईशनमीशो भावे धप्रत्ययः एश्वर्यमित्यर्थ 'ईश एश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः । कवचित् 'महासोक्खे इतिपाठस्तत्रमहत् सौख्यं प्रभूतसवेद्योदयवशाद्यस्यसमहासौख्यः पल्योपमस्थितिकः परिवसति, सचतत्रचतुर्णांसामानिकसहस्राणांचतसृणाग्रमहिषीणांसपरिवाराणां प्रत्येकमेकैकसहनसङ्ख्यपरिवारसहितानां तिसृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्यकानां पर्षदांसप्तानामनीकानां-हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनांषोडशानामात्रक्षसहस्राणां विजयस्यद्वारस्य विजयाया राजधान्याअन्येषांचबहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च आहेवचंतिआधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियतेतत आह-पुरस्य पतिपुरपतिस्तस्य कर्मपौरपत्यंसर्वेषामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वंनायकत्वमन्तरेणापिस्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्यर्थमाह स्वामित्वं' स्वमस्यास्तीतिस्वामी तद्भावः स्वामित्वंनायकत्वमित्यर्थ, तदपिचनायकत्वं कदाचित्पोषकत्वमन्तरेणापि भवतियथाहरिणयूथाधिपतेर्हरिणस्यततआह-भर्तृत्वं-पोषकत्वं 'डुभृञ्धारणपोषणयोः' इति वचनात्, अत एवमहत्तरकत्वं, तदपिचेह महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्गं प्रति तत आह 'आणाईसरसेनावच्चं' आज्ञयाईश्वर आज्ञेस्वरः सेनायाःप्रतिसेनापतिआज्ञेश्वरश्वासौ सेनापतिश्च आशेश्वरसेनापतिस्तस्यकर्मआज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भावः 'कारयन्' अन्यैर्नियुक्तैः पुरुषैः पालयन्स्वयमेव, महता रवेणेतियोगः 'अहय'त्तिआख्यानकप्रतिबद्धानियदिवा 'अहतानि' अव्याहतानि नित्मयानि नित्यानुबन्धीनीति भावः,येनाट्यगीते नाट्यं-नृत्यंगीतं-गानंयानिचवादितानि तन्त्रीतलतालत्रुटितानि' तन्त्री-वीणातलौ-हस्ततलौ तालः कसिलात्रुटितानि-वादित्राणि, तथा यश्च धनमृदङ्गः पटुनापुरुषेणप्रवादितः, तत्र धनमृदङ्गो नाम घनसमानध्वनिर्यो मृदङ्गस्तत एतेषां द्वन्द्वस्तेषां रवेण 'देव्यान्' प्रधानान् भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान भुञ्जानः विहरति' आस्ते। __ 'से एएणद्वेण मित्यादि, तत एतेन 'अर्थेन' कारणेन गौतम ! एवमुच्यते-विजयद्वारे विजयद्वारमिति, विजयाभिधानदेवस्वामिकत्वाद् विजयमिति भावः॥ - "विजया राजधानी" अधिकार :मू. (१७३) कहि णं भंते ! विजयस्स देवस्स विजया नाम रायहाणी पन्नत्ता?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy