________________
२३६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६९
रत्नकरण्डकौ प्रज्ञप्तौ, ' से जहा नामए' इत्यादि, स यथा नाम-राज्ञश्चतुरन्तचक्रवर्त्तिनः, चतुर्षुपूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्त्तितुं शीलं यस्य तस्य 'चित्र:' आश्चर्यभूतो नानामणिमयत्वेन नानावर्णोवा 'वेरुलियमणिकालियपडलपञ्च्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रयवतटः' स्फाटिकपटलमयाच्छादनः 'साय पभाए' इति स्वकीयया प्रभया ‘तान्’ प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे - उद्योतयति तापयति प्रभासि, 'एवमेवेत्यादि सुगमम् ।
'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठौ' हयकण्ठप्रमाणौ रत्नविशेषी, " एवं सर्वेऽपि कण्ठावाच्या इति, तथा चाह 'सव्वरयणामया' सर्वे 'रत्नमयाः ' रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्पचङ्गेय प्रज्ञप्तौ, एवं माल्यचूर्णगन्धवस्त्र भरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, ‘अच्छा' इत्यादि प्राग्वत् । एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि । 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ।
'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि ' वज्ररत्नापूरितदण्डशलाकासन्दीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसङ्ख्याका वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषु तानि अष्टसहस्रवरकञ्चनशलाकानि 'दद्दरमलयसुगन्धिसव्वोउयसुरहिसीयलच्छाया' इति दर्दर:- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्या - विच्छित्या चित्रं --आलेखो येषां तानि मङ्गलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकारः- चन्द्राकृति स उपमा येषां तानि तथा चन्द्रमण्डलवद्ध त्तानीति भावः ।
'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामरामि 'चंदप्पभवइरवेरुलियनाणामणिरयणखाचियदंडा' इति चन्द्रप्रभः - चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रानानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रत्वं प्राकृतत्वात्, तथा 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओ' इति शङ्खः-प्रतीतोऽङ्को - रत्नविशेषः कुन्देति- कुन्दपुष्पं दकरजः - उदककणाः अमृतमथितफेनपुञ्जः-क्षीरोदजलमथनसमुत्थफेनपुञ्जस्तेषामिव संनिकाशः - प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ।
‘तेसिण’मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'तैलसमुद्गकौ' सुगन्धितैलाधारविशेषी, उक्तं च जीवाभिगममूलटीकायां - "तैलसमुद्गको सुगन्धितैलाधारी" एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org