SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २३५ प्रतिपत्तिः-३, दीव० यार्थभया' आदर्शकगण्डप्रतिबन्धप्रदेशाः, आदर्शकगण्डानांमुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्ररत्नमयावरङ्गागण्डा इत्यर्थः, 'नानामणिमयावलक्षाः' वलक्षणोनामश्रृङ्खलादिरूपमवलम्बनम्, अङ्कमयानि-अङ्करत्नमयानिमण्डलानियत्र प्रतिबिम्बसंभूति 'अणोहसियणिम्मला छायाए' इति, अवघर्षणमवघर्षितं, भावेक्तप्रत्ययः, भूत्यादिना निमज्जनमित्यर्थः,अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मलाअनवघर्षितनिर्मला तयाछायया समनुबद्धाः 'चंदमंडलपडिनिकासा' इतिचन्द्रमण्डलसध्शाः ‘महयामहया' अतिशयेन महान्तः 'अर्द्धकायसमानाः' द्रष्टु :शरीरार्द्धप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 'तेसि ण मित्यादि, तेषां तोरणानांपुरतो द्वे द्वे वज्रनामे स्थाले प्रज्ञप्ते, तानि च स्थालानि तिष्ठन्ति] 'अच्छतिच्छडियसालितंदुलनहसंदट्ठपडिपुण्णा इव चिटुंति' अच्छा-निर्मलाःशुद्धस्फटिकवत्रिच्छटिताअतएव नखसंदष्टाः-नखाःसंदष्टा मुसलादिभिश्चुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छैस्त्रिच्छटितैः शालितन्दुलैर्नखसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीवपृथिवीपरिमाणरूपाणितानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह-'सव्वजंबूनदमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महयामहया' इतअतिशयेन महान्तिरथचक्रसमानानिप्रज्ञप्तानि हे श्रमण ! हे आयुष्मन्!। __ 'तेसि णमित्यादि, तेषां तोरणानांपुरतो द्वे द्वे 'पाईओ' इति पायौ प्रज्ञप्ते, ताश्च पात्र्यः 'अच्छोदकपडिहत्थाओ' इतिस्वच्छपानीयपरिपूर्णाः 'नानाविहस्सफलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचन चैकवचनंप्राकतत्वात्, नानाविधैः ‘फलहरितैः' हरितफलैर्बहु-प्रभूतंप्रतिपूर्णाइव तिष्ठन्ति, नखलुतानि फलानि जलंवा किन्तुतथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, सव्वरयणामईओ' इत्यादिप्राग्वत्, 'महयामहया' इति अतिशयेन महत्यो गोकलिञ्ज चक्रसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्!। तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्रज्ञप्तौ, तेच सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णे प्रसाधनामाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापितृतीयार्थेषष्ठी बहुवचनेचैकवचनंप्राकृतत्वात, उपमानभावनामाग्वत्, 'सव्वरयणामया' इत्यादि तथैव ।। 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तंचमुलटीकायां-“मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरलात्मिकाः 'अच्छा' इत्यादि प्राग्वत्। - 'तासुणंमनोगुलियासुबहवे' इत्यादि, तासुमनोगुलिकासु बहूनि स्वर्णमयानिरूप्यमयानि चफलकानिप्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषुबहवो वज्रमयाः ‘नागदन्तकाः' अङ्गुटकाः प्रज्ञप्ताः, तेषुनागदन्तकेषुबहूनि ‘रजतमयानि' रूप्यमयानि सिक्ककानिप्रज्ञप्तानि, तेषुचरजतमयेषु सिक्ककेषुबहवो 'वातकरकाः' जलशून्याः करका इत्यर्थ प्रज्ञप्ताः॥ तेणमित्यादि तेवातकरकाः 'कृष्णसूत्रसिक्कगवस्थिताः' इति, आच्छादनंगवस्थाः (ताः) संजाता एष्वितिगवस्थिताः कृष्णसूत्रैःकृष्णसूत्रमयैर्गवस्थैरिति गम्यते, सिक्ककेषु गवस्थिताः कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिक्ककगवस्थिता इत्याद्यपि भावनीयं, तेच वातकरकाः सर्वात्मना वैडूर्यमयाअच्छा इत्यादि प्राग्वत्। 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रौ' चित्रवर्णोपेतावाश्चर्यभूतौ वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy