________________
२३४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६९ तेसिणंतोरणाणं पुरतो दोदो रुप्पछदाछत्ता पन्नत्ता, तेणंछत्ता वेरुलियभिसंतविमलदंडा जंबूणयकन्निकावइरसंधी मुत्ताजालपरिगता अट्ठसहस्सवरकंचणसलागा ददरमलयसुगंधी सव्वोउअसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा वट्टा ॥
तेसिणंतोरणाणं पुरतो दो दो चामराओ पन्नत्ताओ, ताओणंचामराओ (चन्दप्पभवइरवेरूलियनानामणिरयणखचियदंडा) नानामणिकणगरयणविमलमहरिहतवणिज्जुञ्जलविचित्तदंडाओ चिल्लिआओसंखंककुंददगरयअमयमहियफेणपुंजसण्णिकासाओ सुहुमरयतदीहवालाओसव्वरयणामताओअच्छाओजाव पडिरूवाओ।तेसिणंतोरणाणंपुरतोदो दोतिलसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥
वृ. 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां वे द्वे तोरणे प्रज्ञप्ते, तानिच तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेषप्राग्वत् ।। 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे शालभञ्जिके प्रज्ञप्ते, शालभञ्जिकावर्णनं प्राग्वत् ।
'तेसि ण'मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदन्तकानां वर्णनं यथाऽघस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् 'तेसिण मित्यादि, तेषांतोरणानांपुरतोद्वौ द्वौ हयसंघाटको द्वौ द्वौ गजसङ्घाटकौ द्वौ द्वौ नरसङ्घाटको द्वौ द्वौ किन्नरसङ्घाटकौ द्वौ द्वौ किंपुरुषसङ्घाटकौ द्वौ द्वौ महोरगसङ्घाटकौ द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसङ्घाटकौ, एते च कथम्भूताः ? इत्याह-सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, एवं पङ्किवीथीमिथुनकान्यपि प्रत्येकं वाच्यानि।
_ 'तेसिंतोरणाण'मित्यादि, तेषां तोरणानांपुरतो द्वेद्वे पद्मलते यावत्करणावे द्वेनागलते द्वेद्वेअशोकलतेवेद्वे चम्पकलते द्वेद्वेचूतलते द्वेद्वेवासन्तीलते द्वेद्वेकुन्दलते द्वे द्वेअतिमुक्तकलते इतिपरिग्रहः, द्वेद्वेश्यामलते, एताश्च कथम्भूताः? इत्याह-निचंसुकुमियाओ' इत्यादियावत्करणात् 'निच्चं मउलिया निचं लवइयाओ निचं थइयाओ निचं गोच्छियाओ निचं जमलियाओ निच्चं विणमिया निचं सुविभत्तपडिमंजरिवडंसगधरीओ निच्चं कुसुमियमउलियलवइयथवइयनिच्चंगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कथम्भूताः ? इत्याह-सव्वरयणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकपरिग्रहः स च प्राग्वद्भावनीयः ।
'तेसिण'मित्यादि, तेषां तोरणानांपुरतो द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, वर्णकश्च चन्दनकलशानां वरकमलपइट्ठाणा' इत्यादिरूपः सर्व प्राक्तनो वक्तव्यः ।। 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौद्वौ भृङ्गारको प्रज्ञप्तौ, तेषामपि चन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते मत्तगयमहामुहागिइसमाणापन्नता समणाउओइति वक्तव्यं मत्तगयमहा-मुहागिइसमाणा' इतिमत्तोयोगजस्तस्य महद्-अतिविशालं यन्मुकं तस्याकृति-आकार-स्तत्समानाः-तत्सशाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !।
___ 'तेसिण'मित्यादि, तेषांतोरणानांपुरतोद्वौद्वावादर्शकौ प्रज्ञप्ती, तेषांचादर्शकानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः 'प्रकण्ठकाः' पीठकविशेषाः 'वैडूर्यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org