SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० भावमुपागता विजयद्वारवत् । ‘चंदाननाओ’ इति चन्द्रवद् आननं मुखं यासां ताश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धेनअष्टमीचन्द्रेण समं- समानं ललाटं यासां ताश्चन्द्रार्द्धसमललाटा: 'चंदाहियसोमदंसणाओ' इति चन्द्रादप्यधिकं सोमं - सुभगं कान्तिमद्दर्शनं - आकारो यासां तास्तथा, उल्का इव द्योतमानाः 'विज्जुघणमरीचिसूरदिप्पंततेय अहिययरसन्निकासाओ' इति विद्युतो ये घना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाशः - प्रकाशो यासां तास्तथा 'सिंगारागारचारुवेसाओ' इति श्रृङ्गारो मण्डनभूषणाटोपस्तप्रधान आकार-आकृतिर्यासां ताः शृङ्गाराकाराः चारु वेषो - नेपथ्यं यासां ताश्चारुवेषास्ततः कर्म्मधारये शृङ्गाराकारचारुवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् । 'विजयस्स णं दारस्से' त्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन ‘द्विघातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटकौ प्रज्ञप्तौ, 'ते णं जालकडगा' इत्यादि, ते च जालकटकाकीर्णा रम्यसंस्थाना - प्रदेशविशेषाः 'सव्वरयणामया अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् ॥ 'विजयस्से' त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विघातो नैषेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ते, तासांच घण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - जाम्बूनदमय्यो घण्टाः वज्रमय्यो लालाः नानामणिमया घण्टापावः तपनीयमय्यः शृङ्गला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः । २२९ 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टाः 'ओघस्वराः ' ओघेन - प्रवाहेण स्वरो यासां ता ओघस्वराः, मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः, हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रोञ्चस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः, एवं दुन्दुभिस्वरा नन्दिस्वराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद् घोषो निनादो यासां ता नन्दिघोषाः, मञ्जुः - प्रियः स्वरो यासां ता मञ्जुस्वराः, एवं मञ्जुघोषाः, किं बहुना ?, सुस्वराः सुस्वरघोषाः, 'ओरालेण' मित्यादि प्राग्वत् ‘विजयस्सण’मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विघातो नैषेधिक्यां द्वे द्वे वनमाले प्रज्ञप्ते, ताश्च वनमाला नानाद्रुमाणां नानालतानांच ये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुलाः- सम्मिश्राः 'छप्पयपरिभुज्जमाणसोमंतसस्सिरीया' इति षट्पदैः परिभुज्यमाना सती शोभमाना षट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ मू. (१६८) विजयस्स णं दारस्स उभओ पासिं दुहतो निसीहियाए दो दो पगंठगा पण्णत्ता, ते णं पगंठगा चत्तारि जोयणाइं आयामविक्खंभेणं दो जोयणाइं बाहल्लेणं सव्ववइरामता अच्छा जाव पडिरूवा । तेसि णं पयंठगाणं उवरिं पत्तेयं पत्तेयं पासायवडेंसगा प०, ते णं पासायवडिंसगा चत्तारि जोयणाई उड्डुं उच्चत्तेणं दो जोयणाइं आयामविक्खंभेणं अब्भुग्गयमूसितपहसिताविव विविहमणिरयणभत्तिचित्ता वाउछुयविजयवेजयंतीपडागच्छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाण सिहरा जालंतररयणपंजरुम्मिलितव्व मणिकणगधूभियागा वियसियसयवत्तोंडरीयतिलकरयणद्धयंदचित्ता नानामणिमयदामालंकिया अंतो य बाहिं च सण्हा तवणिज्जरुइल For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy