________________
२२८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६७
प्रज्ञप्ताः, ताश्च धूपघटिकः 'कालागुरुपवरकुंदरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामा' कालागुरु प्रसिद्धः प्रवरः- प्रधानः कुन्दुरुष्कः-चीडा तुरुष्कं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुप्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो मधमधायमानो गन्ध उद्भुत - इतस्ततो विप्रसृतस्तनाभिरामाः कालागुरुप्रवरकुन्दुरुष्कतुरुक्क धूमपमघमघायमानगन्धोद्धुताभिरामाः, तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आस्वस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि' तीकप्रत्ययः, अत एव गन्धवर्त्तिभूताः - सौरभ्यवर्त्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पाः 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम् ? अत आह- ध्राणमनोनिर्वृतिकरेण हेतौ तृतीया यतो घ्राणमनोनिर्वृतिकरणस्ततो मनोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति । ‘विजयस्स णं दारस्से’त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विघातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः 'सुपइट्ठियाओ' इति सुष्ठुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुष्ठु अतिशयेन रमणीयतयाऽलङ्कृताः स्वलङ्कृ ताः 'नानाविहरागवसणाओ' इति नानाविधो- नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि - वस्त्राणि संवृततया यासां ता नानाविधरागवसनाः 'रत्तावंगाओ' इति रक्तोऽपाङ्कीनयनोपान्तं यासां ता रक्तापाङ्गाः 'असियकेसीओ' इति असिताः - कृष्णाः केशा यासां ता असितकेश्यः - 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः - कोमला विशदानिर्म्मलाः प्रशस्तानि -शोभनानि अस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लितंसंवृतमग्रं येषां शेखरककरणात् ते संवेल्लिताग्राः शिरोजाः - केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः ‘नानामल्लपिणद्धाओ' इति नानारूपाणि मल्यानि - पुष्पामि पिनद्धानिआविद्धानि यासां ता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, 'मुट्ठिगैज्झसुमज्झा' इति मुष्टिग्राह्यं सुष्ठु - शोभनं मध्यं - मध्यभागो यासां ता मुष्टिग्राह्यसुमध्याः 'आमेलगजमलजुगलवट्टियअब्मुण्मयवीणरइयसंठियपओहराओ' पीनं- पीवरं रचितं संस्थितं - संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ आमेलक- आपीडः शेखरक इत्यर्थ तस्य यमलं- समश्रेणीकं युगलं तद्वत् वर्त्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थिती च पयोधरौ यासां तास्तथा ।
'ईसिं असोगवरपायवसमुट्ठियाओ' इति ईषत् - मनाक् अशोकवरपादपे समवस्थिताआश्रिता ईषदशोकवरपादपसमवस्थिताः, तथा वामहस्तेन गृहीतमग्रं शालायाः शाखाया अर्थादशोकपापस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः, 'ईसिंअड्डऽच्छिकडक्खचिट्ठिएहिं लूसेमाणीओ विवे' ति ईषत् - मनाग् 'अड्डुं’तिर्यग्वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनंसि 'चक्खुल्लोयणलेसेहि य अन्नन्नं विज्झेमाणीओ इव' अन्नमन्नं - परस्परं चक्षुषां लोकनेन - अवलोकनेन लेशाः - संश्लेषास्तैर्विध्यमाना इव, किमुक्तं भवति ? – एवं नाम तास्तिर्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ते यथा नूनं परस्परसौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वत
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International