________________
प्रतिपत्तिः-३, दीव०
२२७ अतिशयेन महान्तोमहेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौइन्द्र कुम्भश्चतस्यसमानामहेन्द्रकुम्भसमाना-महाकलशप्रमाणाः प्रज्ञप्ताः हे श्रमण! हे आयुषम्न् !। ___'विजयस्सण'मित्यादि, विजयस्य द्वारस्य उभयो-पार्श्वयोरेकैकनैषेधिकीभावेन द्विघातो नैषेधिक्यां द्वौ द्वौ 'नागदन्तकौ'नर्कुटको अङ्कुटकावित्यर्थःप्रज्ञप्ती, तेचनागदन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमनानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानिगवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी-क्षुद्रघण्टा किङ्किणी जालानि-क्षुद्रघण्टा(साता)स्तैः परिक्षिप्ताः-सर्वतोव्याप्ताः अब्मुग्गया' इति अभिमुखमुद्गता अभ्युद्गताअग्रिमभागे मनाग् उम्रता इति भावः ‘अभिनिसिट्ठा' इति अभिमुखं-बहि गाभिमुखं निसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग्-भित्तिप्रदेशे सुष्टु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंगपरिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः-अधस्तनं यत्पन्नगस्य-सर्पस्या तस्येवरूपंआकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे'पन्नगार्द्धसंस्थानसंस्थिताः' अधःपन्नगार्द्धसंस्थानसंस्थिताः सव्ववइरामया' सर्वात्मना वज्रमयाः 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत्, ‘महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्रज्ञप्ता हे समण ! हे आयुष्मन् !।
'तेसुणं नागदंतएसु' इत्यादि, तेषु च नागदन्तकेषु बहवः कृष्णसूत्रे बद्धाः ‘वग्घारिया' इति अवलम्बिताः ‘माल्यदाकलापाः' पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकल्पाः, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः। ___ ते णं दामा' इत्यादि, तानि दामानि तवनिजलं बूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्रामग्रिमभागे प्राङ्गणे लम्बमानो मण्डिनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि "सुवण्णपयरगमंडिया इतिपार्श्वतः सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मणिडितानिसुवर्णप्रतरकमणिडातानि 'नानामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा-विचित्रवर्णा द्वार-अष्टादशसरिरा अर्द्धहारानवसरिकास्तैरुपशोभितः समुदाय येषां तानि तथा 'जाव सिरीए अतीव उवसोभेमाणा चिट्ठति' अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः-'ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा पलंबमाणा पलंबमाणा परुंभ(झंझ)माणा परुंभ(झंझ)माणा ओरालेणं मणुन्नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आयूरेमाणा आपूरेमाणा सिरीए उवसभेमाणा उवसोभेमाणा चिट्ठति । एतच्च प्रागेव पद्मवरवेदिकावर्णने व्याख्यामिति भूयो न व्याख्यायते । तेसिणं नागदंताणमित्यादि, तेषं नागदन्तानामुपरि अन्यौ द्वौ नागदन्तकौ प्रज्ञप्तो, ते च नागदन्तकाः 'मुत्ताजालंतरूसियहेमजालगवक्खजाल' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावद् गजदन्त- समाना-प्रज्ञप्ता हे श्रमण ! हे आयुषम्न् !।
तेसुणंनागदंसएण' इत्यादि, तेषानागदन्तकेषुबहूनि रजतमयानिसिक्ककानिप्रज्ञप्तानि, तेषु च रजतमयेषु निक्ककेषु बहवो वैडुर्यरत्नमय्यो' वैडूर्यरत्नात्मिकाः "धूपघट्यो धूपघटिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org