________________
२२६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६७
व्यालरूपकाणि लीलास्थितशालमञ्जिकाश्च --लीलास्थितपुत्रिकाश्च यस्य तत्तथा 'वाइरामए कूडे ' वज्रमयो- - वज्ररत्नमयः कूटो - माडभागः रजतमय उत्सेधः -शिखरम्, आह च मूलटीकाकारः"कूडो - माडभाग उच्छ्रयः- शिखर "मिति, केवलं शिखरमत्र तस्यैव माडभागस्य संबन्धि द्रष्टव्यं न द्वारस्य, तस्य प्रागेवोक्तत्वात्, 'सव्वतवणिज्जमए उल्लोए' सर्वात्मना तपनीयमय उल्लोकः - उपरिभागः 'नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे' इति, मणयो - मणिमया वंशा येषां तानि मणिमयवंशकानि लोहिताक्षा - लोहिताक्षमयाः प्रतिवंशा येषां तानि लोहिताक्षप्रतिवंशकानि रजता - रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तो मकारस्य च द्वित्वं, मणिवंशकानि लोहिताक्षप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणि - गवाक्षापरपरयायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात्, 'अंकमया पक्खा पक्खबाहाओ जोईरसामया वंसा वंसकवेल्लुगाय रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेयरययामए छा(य)णे' इति पद्मवरवेदिकावद्भावनीयम् ।
'अंकमयकणगकूडतवणिज्जथुभियागे' इति अङ्कमयं - बाहुल्येनाङ्करत्नमयं पक्षबाह्लादीनामङ्करनात्मकत्वात् कनकं-कनकमयं कूटं-शिखरं यस्य तत् कनककूटं तपनीया - तपनीयमयी स्तूपिका- लघुशिखररूपा यस्य तत्तपनीयस्तूपिकाकं, ततः पदत्रयस्य पदद्वयमीलनेन कर्म्मधारयः, एतेन यत् प्राक् सामान्यत उत्क्षिप्तं 'सेए वरकणगथुभियागे' इति तदेव प्रपञ्चतो भावितमिति ।
सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति - 'सेए' श्वेतं, श्वेतत्वमेवोपमया द्रढयति- 'संखतलविमलनिम्मलदधिघणगोखीरफेणरययनिगरप्पगासे' इत विमलं- विगतमलं यत् शङ्खतलं शङ्खस्योपरितनो भामो यश्च निर्मलो दधिघनोघनीभूतं दधिगोक्षीरफेनो रजतनिकरश्च तद्वत्प्रकाशः-प्रतिमता यस्य तत्तथा, 'तिलगरयणद्धचंदचित्ते' इति तिलकरत्नानि - पुण्ड्रविशेषास्तैरर्द्धचन्द्रैश्च चित्राणि - नानारूपाणि तिलकार्द्धचन्द्रचित्राणि, क्वचित् संखतलविमलनिम्मलदधिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ता' इति पाठस्तत्र पूर्ववत् पृथक् पृथग् व्युत्पत्तिं कृत्वा पश्चात्पदद्वयस्य २ कर्मधारयः, 'नानामणिदामालंकिए' नानामणयो - नानामणिमयानि दामानि - मालास्तैरलङ्कृ तं नानामणिदामालङ्कृ तम् अन्तर्बहिश्च श्लक्ष्णं' श्लक्ष्णपुद्गलस्कन्धनिर्मापितं तवणिज्जवालुयापत्थडे' इति तपनीयाः - तपनीयमय्यो या वालुकाः - सिकतास्तासां प्रस्तटः - प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे' इति प्राग्वत् ‘विजयस्स णं दारस्से' त्यादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विघातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी- निषीदनस्थानम्, उक्तं च मुलटीकाकारेण - " नैषेधिकी निषीदनस्थान" मिति प्रत्येकं द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, ते च चन्दनकलशाः 'वरकमलपइट्ठाणा' इति वरं - प्रधानं यत्कमलं तत्प्रतिष्ठानं आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाकाः - चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति आविद्धः - आरोपिताः कण्ठेगुणो- रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक, 'पउमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः ‘सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org