SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० २२५ वृ. 'कहि णं भंते!' इत्यादि, का भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह - गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमेणं' ति पूर्वस्यां दिशि पञ्चचत्वारिंशदयोजनसहस्रप्रमाणया ‘अबाधया' अपान्तरालेन यो जम्बूद्वीपस्य 'पुरच्छिमे पेरंते' इति पूर्व पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पच्चत्थिमेणं' ति पश्चिमे भागे सीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्, अष्टौ योजनानि उच्चैस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं' ति तावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थ: ‘सेए’ इत्यादि, ‘श्वेतं’ श्वेतवर्णोपेतं बाहल्येनाङ्करत्नमयत्वात् 'वरकणगथूमियाए' इति वरकनकावरकनकमयी स्तूपिका- शिखरं यस्य तद् वरकनकस्तुपिकाकम्, 'ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिंगयाभिरागे विज्जाहरजमलजुगलजंतंजुत्ते इव अच्चीसहस्समालणीए रूवगसहस्सकलिए मिसमाणे मिब्भिसमाणे चक्खुल्लोयणलसे सुहफासे सस्सिरीयरूवे' इति विशेषणजातं प्राग्वत् । 'वण्णो दारस्स तस्सिमो होइ' इति 'वर्ण' वर्णकनिवेशो द्वारस्य 'तस्य' विजयाभिधानस्य ‘अयं’ वक्ष्यमाणो भवति, तमेवाह - 'तंज' त्यादि, तद्यथा - वज्रमया नेमा - भूमिभागादूर्ध्वं निष्क्रामन्तः प्रदेशा रिष्ठमयान प्रतिष्ठानानि - मूलपादाः 'वेरुलियरुइलखंभे' इति वैडूर्यावैडूर्यरत्नमया रुचिराः स्तम्भा यस्य तद् वैडूर्यरुचिरस्तम्भं 'जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण - सुवर्णेनोपचितैः - युक्तैः प्रवरैः प्रधानैः पञ्चवर्णैर्मणिभिःचन्द्रकान्तादिभिरत्नैः– कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा 'हंसगब्भमए एलुगे' इति हंसगर्भो - रत्नविशेषस्तन्मय एलुको - देहली - 'गोमेज्जमयइंदकीले' इति गोमेयकरत्नमय इन्द्रकी लोहिताक्षरत्नमय्यौ द्वारपिण्डी(चेट्यौ) - द्वारशाखे 'जोइरसामए उत्तरंगे' इति ज्योतीरसमयमुत्तरङ्गं-द्वारस्योपरि तिर्यगव्यवस्थितं काष्ठं वैडूर्यमयी कपाटी लोहिताक्षमय्यो - लोहिताक्षरत्नात्मिकाः सूचयः - फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वइरामया संधी' वज्रमयाः 'सन्धयः' सन्धिमेलाः फलकानां, किमुक्तं भवति ? - वज्ररत्नापूरिताः फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्गका इव समुद्गकाः - सूतिकागृहाणि तानि नानामणिमयानि 'वइरामय अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च मूलटीकाकारः , "अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" इति एतौ द्वावपि वज्ररत्नमयौ, 'रययामयी आवत्तणपेढिया' इति आवर्त्तनपीठिका यत्रेन्द्रकीलिका, उक्तं च मूलटीकायाम् “आवर्त्तनपीठिका यत्रेन्द्रकीलको भवति” 'अंकुत्तरपासाए' इति अङ्का अङ्करत्नमया उत्तरपार्श्वो यस्य तद् अङ्कोत्तरपार्श्व 'निरंतरियघमकवाडे' इति निर्गता अन्तरिका - लघ्वन्तररूपा ययोस्तौ निरन्तरिकौ अत एव घनौ कपाटौ यस्य तन्निरन्तरघनकपाटं 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तस्य द्वारस्योभयोः पार्श्वयोर्भित्तिषु - भित्तिगता भित्तिगुलिकाःपीठकसंस्थानीयास्तिम्न षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः, 'नानामणिरयणवालरूवगलीलट्ठियसालभंजियाए' इति इदं द्वारविशेषणं, नानामणिरत्नानि - नानामणिरत्नमयानि 915 Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy