SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २२१ लघवः कचित् खडखडगा' इति लघव आयताच, तथाअन्दोलकाः पक्ष्यन्दोलकाश्च, तत्र यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यामानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनषण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूताः? 'इत्याह'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् । तेसु ण'मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणानियतिपर्वतकादिपरिग्रहः, बहूनिहंसासनानि तत्र येषामासानामधोभागेहंसाव्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-श्ययारूपाणि भद्रासनानि येषामघोभागेपीठिकाबन्धः पक्ष्यासनानि येषामधोभागेनानास्वरूपाः पक्षिणः, एवंमकरासनानि सिंहासननानिच भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि 'दिसासोवत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां सङ्गाहिका साहणिगाथा॥१॥ "हंसे १ कोंचे २ गरुडे ३ उण्णय ४ पणए य ५ दीह ६ भद्दे य७। पक्खे ८ मयरे ९ उसहे १० सीह ११ दिसासोवृत्थि १२ बारसमे॥" एतानि सर्वाण्यपि कथम्भूतानि ? इत्यत आह-सव्वरयणामया' इत्यादि प्राग्वत् । 'तस्सणंवनसंडस्से'त्यादि, प्राग्वत्तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव देशस्य तत्रतत्रैकदेशेबहूनि 'आलिगृहकाणि' आलि-वनस्पतिविशेषस्तन्मयानि गृहकाणिमालिरपिवनस्पतिविशेषस्तन्मयानि गृहकाणि मालिगृहकणि कदलीगृहकाणि लतागृहकाणि प्रतीतानि 'अच्छणघरका' इतिअवस्थानगृहकाणि येषुयदातदावाऽऽगत्यबहवः सुखासिकयाऽवतिष्ठन्ते, प्रेक्षणकगृहाणियत्रागत्य प्रेक्षणकानिविदधति निरीक्षन्तेच, मज्जनकगृहकाणियत्रागत्य स्वेच्छया मज्जनं कुर्वन्तिप्रसाधनगृहकाणि यत्रागत्य स्वं परंचमण्डयन्तिगर्भगृहकाणि-गर्भगृहाकाराणि, 'मोहनघरगा' इति मोहणं-मैथुनसेवा “रमियमोहणरयाई" इति नाममालावचनात्, तप्रधानानि गृहकाणि मोहनगृहकाणिवासभवनानीति भावः, 'शालागृहकाणि' पट्टशालाप्रधानानि गृहकाणि 'जालगृहकाणि' जालकयुक्तानि गृहकाणि 'कुसुमगृहकाणि' कुसुमप्रकरोपचितानि गृहकाणि 'चित्रगृहकाणि' चित्रप्रधानानि गृहकाणि 'गन्धर्वगृहकामि' गीतनृत्याभ्यासयोग्यानिगृहकाणि 'आदर्शगृहकाणि आदर्शमयानीव (आदश) गृहकाणि, एतानि च कथम्भूतानि? इत्यत आह'सव्वरयणामया' इत्यादिविशेषणकदम्बकं प्राग्वत् । 'तेसु णमित्यादतेषु आलिगृहकेषु यावच्छब्दान्मालिगृहकादिपरिग्रहः, बहूनि हंसासनानि इत्यादि प्राग्वत् ।। 'तस्स ण'मित्यादि, तस्यवनखण्डस्य मद्येतत्रदेशे तस्यैवदेशस्य तत्रतत्रैकदेशेबहवोजातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासन्तीमण्डपका दधिवासुका नाम वनस्पतिविशेषस्तन्मयामण्डपका दधिवासुकमण्डपकाः, सूरिल्लिरपिवनस्पतिविशेषस्तन्मयामण्डपकाः सूरिल्लिमण्डपकाः, ताम्बूली-नागवल्ली तन्मया मण्डप- कास्ताम्बूलीमण्डपकाः, नागो-द्रुमविशेषः स एव लतानागलता,इहयस्य तिर्यक्तथाविधा शाखा प्रशाखानप्रसृतासालतेत्यभिधीयते, नागलताम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy