SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६५ यमण्डपकाः, अतिमुक्तकमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूताः ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसु ण' मित्यादि, तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु, यावात्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अप्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिकसौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया कोंचासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उन्नयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया मयरासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सीहासणसंठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठाण' इति परिग्रहः । अन्ये च बहवः शिलापट्टका यानि विसिष्टचिह्नानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत्संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, क्वचित् 'मांसल - सुघुट्ठविसिट्ठसंठाणसंठिया' इति पाठस्तत्रान्ये च बहवः शिलापट्टका मांसला इव मांसलाः अकठिना इत्यर्थः सुघुष्टा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थानसंस्थिताश्च ‘आईणगरूयबूरन - वणीयतुलफासा मउया सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगत- हंसासनादिषु यावन्नानारूपसंस्थासंस्थितपृथिवीशिलापट्टकेषु णमिति पूर्वद् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकायप्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति, तेषु देवयोनिक-तया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्ध्वस्थानेन वर्त्तन्ते 'निषीदन्ति ' उपविशन्ति 'तुयट्टंति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्य दक्षिणपार्श्वेनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्ति 'रमन्ते' रतिमाबघ्नन्ति 'ललन्ति' मनईप्सितं यथा भवति तथा वर्त्तन्त इति भावः । २२२ 'क्रीडन्ति' यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति 'मोहन्ति' मैथुनसेवां कुर्वन्ति, इत्येवं 'पुरा पोराणाण' मित्यादि, 'पुरा' पूर्वं प्राग्भवे इति भावः कृतानां कर्म्मणामिति योगः, अत एव पौराणानां सुचीर्णानां सुचरितानामितिभावः, इह सुचरितजनितं कर्म्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितं, ततोऽयं भावार्थ - विशिष्टतथाविधधर्म्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानाम्, अत्रापि कारणे कार्योपचारात् सुपराक्रान्तजनितानि कर्माण्येव सुपराक्रान्तानि इत्युक्तं भवति, सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव सुभानां शुभफलानाम्, इह किञ्चिदशुभफलमपीन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभत्वप्रतिपत्यर्थमस्यैव प्यायशब्दमाह– ‘कल्याणानां' तत्ववृत्या तथाविधविशिष्टफलदायिनाम्, अथवा कल्याणानाम्अनर्थेपशमकारिणां, कल्याणं - कल्याणरूपं फलविपाकं 'पच्चणुभवमाणा' प्रत्येकमनुभवन्तः'विहरन्ति' आसते । तदेवं पद्मवरवेदिकाया बहिर्यो वनखण्डस्तद्वक्तव्यतोक्ता, सम्प्रति तस्या एव पद्मवरवेदिकाया अर्वागू जगत्या उपरि यो वनखण्डस्तद्वक्तव्यतामभिधित्सुराह - 'तीसेणं जगतीए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया 'अन्तः' मध्यभागे अत्र महानेको वनषण्डः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy