________________
२२०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १६५
तेषां यन्त्राणि - प्रपञ्चास्तैर्युक्तानीव, अर्चिषां सहस्रैर्मालनीयानि - परिवारणीयानि अर्चिसहस्रमालनीयानि, किमुक्तं भवति ? – एवं नाम प्रभासमुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुक्तानीति, 'रूवगसहस्सकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तैः कलितानि रूपकसहस्रकलितानि 'भिसमाणा' इति दीप्यमानानि 'भिब्मिसमाणा' इति अतिशयेन दीप्यमानानि 'चक्खुल्लोयणलेसा' इति चक्षु कर्तृलोकने- अवलोकने लिसतीव-दर्शनीयत्वातिशयतः श्लिष्यतीव यत्र तानि चक्षुर्लोकनलेसानि 'सुहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ।
‘तेसिं तोरणामं उवरिं अट्ठट्ठमंगले' त्यादि सुगमं, नवरं 'जाव पडिरूवा' इति यावत्करमात् ‘घट्ठा मट्ठा नीरया' इत्यादिपरिग्रहः ।। 'तेसि ण 'मित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजः' कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः एवं बहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शक्लचामरध्वजाः, कथम्भूता इत्याह एते सर्वेऽपि ? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मलाः 'कृष्णाः' कृष्णपुद्गलस्वधनिर्मापिता 'रूप्यपट्टा' इति रूप्यरूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टे येषां ते रूप्यपट्टा: 'वइरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः, तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो - निर्म्मलोन तु कुद्रव्यगंधसम्मिश्रोयो गन्धः स विद्यते येषां ते जलजामलगन्धिका 'अतः अनेकस्वरा’दितीकप्रत्ययः, अत एव सुरम्याः, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत्
'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात् - लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनि द्विसङ्ख्यानि त्रिसङ्ख्या वा छत्रातिच्छत्राणि, बह्वयः पताकाभ्योलोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहवः 'उत्पलहस्तकाः' उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तका बहवो निलनहस्तका बहवः सुभगहस्तका बहवः सौगन्धिकहस्तका बहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तकाः बहवः सहसरपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः 'जाव पडिरूवा' इति यावतकरणात् 'अच्छा सहा लहा' इत्यादि विशेषणकदम्बकपरिग्रहः ॥
‘तासिण’मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीनाम्, अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वतायत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति 'नियइपव्वया' इति नियत्या - नैयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्र नियताः - सदा भोग्यत्वेनावस्थिताः पर्वता नियपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुप्रवर्तकाः ' दारुनिर्मापिता इति पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपकाः' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां - “दकमण्डपकाः स्फाटिकमण्डपका" इति, एवं दकमञ्चका दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'ऊसडा' इति उत्सृता उच्चा इत्यर्थः केचित् 'खुड्डा' इति क्षुल्ला
,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International