________________
प्रतिपत्तिः-३, दीव०
२१९
विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्कितपर्यवसानाः प्रत्येकं प्रत्येकमिति, एकमेकं प्रति प्रत्येकम्, अत्राभिमुख्य प्रतिशब्दो न वीप्साविवक्षायां, पश्चात्प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं वनषण्डपरिक्षिप्ताश्च, 'अप्पेगतियाओ' इत्यादि, अपिबढार्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासांता आसवोदकाः,अप्येककावारुणस्य वारुणसमुद्रस्येव उदकंयासांता वारुणोदकाः, अप्येककाःक्षीरमिवोदकंयासांताःक्षीरोदकाः, अप्येककाघृमिवोदकं यासांताघृतोदकाः,अप्येककाःक्षेदइव-इक्षुरस इवउदकंयासांताः क्षोदोदकाः, अप्येकका अमृतरससमरसमुदकं यासांताअमृतरससमरसोदकाः, अप्येकका अमृतरसेन स्वाभाविकेन प्रज्ञप्ताः । _ 'पासाईया (ओ) इत्यादि विशेषणचतुष्टयं प्राग्वत्, तासां क्षुल्लिकानां यावद्विलपङ्कतीनां प्रत्येकं २ चतुर्दिशिचत्वारि, एकैकस्यां दिशिएकैकभावात्, 'त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपयेषांतानिप्रतिरूपकाणित्रयाणांसोपानानां समाहारस्त्रिसोपानंत्रिसोपानानि अयं वक्ष्यमाणः 'एतद्रूपः' अनन्तरं वक्ष्यमाणस्वरूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा
__'वज्रमयाः' वजरलमया 'नेमाः' भूमेरुवं निष्कामन्तः प्रेशाः 'रिष्ठमयाः' रिष्ठरत्नमयाः 'प्रतिष्ठानाः' त्रिसोपानमूलपादा वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वज्रमयानि वज्ररत्नापूरिताः सन्धयः-फलकद्वयापान्तरालप्रदेशाः लोहिताक्षमय्यः सूच्यः-फलकद्वयसम्बन्धविघटनाभावहेतु पादुकास्थानीयाः नानामणिमया अवलम्ब्यन्ते इति अवलम्बना-अवतरतामुत्तरतां चालम्बने हेतुभूता उवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलंबणबाहाओ' इति अवलम्बनबाहा अपि नानामणिमयाः, अवलम्बनबाहा नाम उभयोउभयोः पार्श्वयोरवलमबनाश्रयबूता भित्तयः, 'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत्।
'तेसिण'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणांप्रत्येकंप्रत्येकंतोरणानिप्रज्ञप्तानि, तेषां चतोरणानामयमेतद्रूपो 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः, तद्यथा तेणंतोरणानानामणिमया' इत्यादि, तानि तोरणानि नानाणिमयानि, मणयः-चन्द्रकान्तादयः, विविधमणिमयानि, नानामणिमयेषुस्तम्भेषु उपविष्टानि' सामीप्येन स्थितानि, तानिच कदाचिच्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयेरन्ततआह-सम्यग्-निश्चलतयाऽपदपरिहारेणचनिविष्टानिततो विशेषणसमासः उपविष्टसन्निविष्टानि 'विविहमुत्तंतरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्तामुक्ताफलानि 'अंतरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामथ्यार्दवीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्रतानितथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरगचमर-इति ईहामृगाःवृका व्यालाः-श्वापदभुजगाः, ईहामृगऋषभतुरग- नरमकरविह- गव्यालकिंनररुरुसरभकुअरवनलतापद्मलतानां भक्त्या-विच्छित्या विचित्रं-आलेखो येषु तानि तथा।
स्तम्भोद्गताभिः-स्तम्भोपरिवर्तिनीभिर्वज्ररत्नमयीभिर्वेदिकाभिपरिगतानि सन्ति यानि अभिरणीयानि तानि स्तम्भोद्गतवज्रवेदिकापरिगताभिरामाणि, तथा 'विजाहरजंतजुत्ताविव अच्चीसहस्समालिणीया' इति विद्याधरयोर्यद् यमलं-समश्रेणीकंयुगलं-द्वन्द्वं विद्याधरयमलयुगलं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only