SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१८ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६५ देशे स्यैव देशस्य तत्र तत्रैकदेशे 'बहूईओ' इति बह्वयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, वाप्यः' चतुरम्राकाराः 'पुष्करिण्यः' वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्र गुालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीत्वं प्राकृतत्वात्, बहूनि सरांसि एकपङ्क्त्या व्यवस्थितानि सरःपङ्किस्ता बह्वयः सरःपङ्कयः, तथा येषु सरस्सुपङ्क्या व्यवस्थितेषु कूपोदकंप्रणालिकया संचरति सा सरःसरःपङ्किस्ता बह्वयः सरःसरःपङ्कयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्कयो बिलपङ्कत्यः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह __'अच्छा' स्फटिकवद्वहिनिर्मलप्रदेशाः 'श्लक्ष्माः' श्लक्ष्णपुद्गलनिष्पादितबहिप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासांता रजतमयकूलाः, तथा समं-अगसिद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितंस्थानंयासांताःसमतीराः, तथा वज्रमयाः पाषाणा यासांता वज्रमयपाषाणाः, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनीयमयं तलं-भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययालुयाओ इतिसुवर्णं-पीतकान्तिहेमसुझं-रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिमयानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासांता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहोयारासुउत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासुताः स्ववताराः। तथा सु-सुखेन उत्तारो-जलमध्यावहिर्विनिर्गमनं यासु ताः सुखोत्ताराः ततः पूर्वदेन विशेषणमासः 'नानामणितित्थसुबद्धाओ' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानियासांतानानामणितीर्थसुबद्धाः, अत्रबहुव्रीहावपिक्तान्तस्य परनिपातोभार्यादिदर्शनाप्राकृतशैलीवशाद्वा, 'चउक्कोणाओ' इति चत्वारः कोणा यस्यां सा चतुष्कोणाः एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणतवसम्भवात्न शेषाणां, तथाआनुपूर्वेण-क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं तत्र गम्भीरंअलब्धस्थानं शीतलं जलं यासुता आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः। _ “संछण्णपत्तभिसमुणालाओ' संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यासुताः संछन्नपत्रबिसमृणालाः, इह बिसमृणालसाहचर्यात्पत्राणि-पद्मनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्र-सहस्रपत्रकेसरफुल्लोपचिताः, तथा षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि च यासुताः षट्पदपरिभुज्यमानकमलाः, तथाऽच्छेन-स्वरूपतः स्फटिकवच्छुद्धेन विमलेनआगन्तुकमलरहितेन सलिलेन पूर्णाअच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिताः अतिप्रभूता इत्यर्थः “पडिहत्थमुद्धमायं अहिरेइयं च जाण आउण्णं" इति वचनात्, उदाहरणं चात्र॥१॥ “घणपडिहत्थं गयणं सराइं नवसलिलसुट्ट (उद्ध)मायाई। अहिरेइयं महं उण चिंताए मणं तुहं विरहे ॥" इति । भ्रमन्तोमत्स्यकच्छपायत्रताः पडिहत्थभ्रमन्मत्स्यकच्छपाः, तथाऽनेकैः-शकुनमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ता अनेकशकुनमिथुनकप्रविचरिताः, ततः पूर्वपदेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy