SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६४ नार्यावा सुष्टु-अतिशयेन सम्यग् गृहीतायाः, तथा चन्दनस्य सारः चन्दनसारस्तेन निर्मापितोयः कोणोवादनदण्डस्तेन परिघट्टितायाः-संस्पृष्टायाः ‘पचूसकालसमयंसि' इति 'प्रत्यूषकालसमये' प्रभातवेलायां, क्वचित् 'पुव्वरत्तावरत्तकाल०' इति पाठस्तत्र प्रदोषसमये प्रातःसमये चेत्यर्थः ___मन्दं मन्दं' शनैः शनैः ‘एजिताया' चन्दनसारकोणेन मनाक् कम्पितायाः 'व्येजितायाः' विशेषतः कम्पितायाः, एतदेव पर्यायेणव्याचष्टे-चालितायास्तथा घट्टितायाः, ऊर्ध्वाधोगच्छता चन्दनसारकोणेन गाढतरंवीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा 'स्पन्दितायाः' नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाः' मूर्छा प्रापिताया ये 'उदारा' मनोज्ञाः कर्णमनोनिवृतिराः सर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, 'स्यात्' कथञ्चिद् भवेदेतद्रूपस्तेषां तृणानांमणीनांचशब्द?, भगवानाह-नायमर्थः समर्थः, पुनरपिगौतमः प्राह-सयथा नामकःकिंनराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, किंनरादयो व्यन्तरविशेषाः, तेषां कथम्भूतानाम् ? इत्याह 'भद्रशालवनगतानांवा' इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं प्रथममेखलायां नन्दनवनं शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं 'महाहिमवंतमलयमन्दरगिरिगुहासमन्नागयाणं' इति महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः, उपलक्षणं शेषवर्षधरपर्वतानां, मलयपर्वतस्य मन्दरगिरेश्च-मेरुपर्वतस्य च गुहा समन्वागतानां, वाशब्दा विकल्पार्थाः, एतेषु हि स्थानेषु प्रायः किंनरादयः प्रमुदिता भवन्ति तत एतेषामुपादानम्, ‘एगतो सहियाणं'ति एकस्मिन् स्थाने सहितानां-समुदितानां ‘समुहागयाणं'तिपरस्परसंमुखागतानांसंमुखं स्थितानां, नैकोऽपि कस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा 'समुविट्ठाणं' सम्यक् परस्परानाबाधया उपविष्टाः समुपविष्टास्तेषां समुपविष्टानां, तथा 'संनिविट्ठाण मिति सम्यक् स्वशरीरानाबाधया न तु विषमसंस्थानेन निविष्टाः संनिविष्टास्तेषां । “पमुइयपक्कीलियाणं'ति प्रमुदिताः-प्रहर्ष गताः प्रकीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासस्तेषां, तथा गीते रतिर्येषां ते गीतरतयो गन्धर्व-नाटयादि तत्र हर्षितमनसो गन्धर्वहर्षितमनसस्ततः पूर्वपदेन विशेषणसमासस्तेषां गद्यादिभेदादष्टविधं गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते, यत्र तु पद्यं-वृत्तादि गीयते तत्पद्यं, यत्र कथिकादि गीयते तत्कथ्यं, पदबद्धं यदेकाक्षरादि यथा ते ते इत्यादि, पादबद्धं यद् वृत्तादिचतुर्भागमात्रे पदे बद्धम्, 'उक्खित्तायमिति उक्षिप्तकंप्रथमतः समारभ्यमाणं, दीर्घत्वंककारात्पूर्वप्राकृतत्वात, एवमुत्तरत्रापि द्रष्टव्यं, 'प्रवृत्तकं प्रथमसमारम्भादूर्द्धमाक्षेपपूर्वकप्रवर्त्तमानं । 'मंदाय'मिति मन्दकं मध्यभागे सकलमूर्च्छनादिगुणोपेतंमन्दं मन्दंसंचरन्, तथा 'रोइया-वसाणं'ति रोचितंसम्यग्मावितमवसानं यस्य तद्रोचितावसानं, शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद् रोचितावसानमिति भावः, तथा सप्तस्वरसमन्वागतं' सप्त स्वराः षडजादयः, उक्तञ्च॥१॥ “सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे। धेवए चेव नेसाए, सरा सत्त वियाहिया ॥" तेच सप्त स्वराः पुरुषस्य स्रया वा नाभीतः समुद्भवन्ति ‘सत्त सरा नाभीतो' इति पूर्वमहर्षिवचनात्, तथाऽष्टमी रसैः-श्रृङ्गारादिभि सम्यक्प्रकर्षणयुक्तमष्टरससंप्रयुक्तं, तथा एकादश For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy