________________
२१३
प्रतिपत्तिः - ३,दीव० गुणैव्यार्पता ये वराः-प्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स आकीर्णवरतुरसुसंप्रयुक्तः, प्राकृतत्वाद् बहुव्रीहावपि निष्ठान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्येऽतिशयेन छेको-दक्षः सारथिस्तेन सुष्टु सम्यकपरिगृहीतस्य, तथा 'सरसयबततीसतोणमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत्तोणानि च-बामाश्रयाः शरशतद्वात्रिंशत्तोणानितैर्मण्डितः शरशतद्वात्रिंशत्तोणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशच्छरशतधृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानियथा तानितस्य सङ्ग्रामायोपकल्पितस्यातीवमण्डनाय भवन्तीति, तथा कङ्कट-कवचं सह कङ्कटं यस्य स सकङ्कटः सकङ्कटोऽवतंसः-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापंयेषांतेसचापायेशरायानिच कुन्तभल्लिमुषण्ढिप्रभृतीनि नानाप्रकाराणियानिचकवचखेटकप्रमुखाणि आवरणानि तैर्भूतः-परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः प्रगुणभूतो यः स योधयुद्धसज्जः, ततः पूर्वपदेन सह विशेषणसमासः।
तस्येत्थंभूतस्य राजाङ्गणे अन्तःपुरे वा रम्ये वा मणिकुट्टिमतलेमणिबद्धभूमितले अभिक्ष्णमभीक्ष्णं मणिको (कुट्टिमतलप्रदेशे राजाङ्गणप्रदेशेवा अभिघट्टिजमाणस्से'तअभिघट्टयमानस्य वेगन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाअभिनिस्सरन्ति, 'भवे एयारूवे सिया' इति ‘स्याद्' कथञ्चिद् भवेद् एतद्रूपस्तेषां मणीनां तृणानां च शब्दः?, भगवानाह-नायमर्थः समर्थः, पुनरपिगोतमः प्राह-सयथा नामकः-प्रातः सन्ध्यायां देवतायाः पुरतोया वादनायोपस्थाप्यते सा किलमङ्गलपाठिका तालाभावेच वाद्यते इति वितालेतालाभावे भवतीति वैतालिकी तस्या वैतालिक्या-वीणाया 'उत्तरामन्दा मुच्छियाए' इति मूर्छन सासंजाताऽस्याइतिमूर्छिता उत्तरमन्दया-उत्तरमन्दाभिधानयामूर्छनया गान्धारस्वरान्तर्गतया सप्तम्या मूर्छिता उत्तरमन्दामूर्छिता।
किमुक्तं भवति?-गान्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तद्यथा॥१॥ “नंदी य खुट्टिमा पूरिमा य चोत्थी असुद्धगंधारा ।
उत्तरगन्धारावि यहवई सा पंचमी गुच्छा। ॥२॥
सुहुमुत्तरआयामा छट्ठी सा नियमसो उ बोद्धव्वा ।
उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा ॥ अथ किंस्वरूपामूर्च्छनाः?,उच्यते, गान्धारादिस्वरूपमाचनेन गायतोऽतिमधुराअन्यान्यस्वरविशेषा यान् कुर्वन्नास्तां श्रोतृन् मूर्छितान् करोति किन्तुस्वयमपि मूर्छित इवतान् करोति, यदिवा स्वयमपि साक्षान्मूर्छा करोति, तथा चोक्तम्॥१॥ “अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया।
कत्ताविमुच्छितो इव कुणए मुच्छं व सोवेति॥" गान्धारस्वारान्तर्गतानांच मूर्च्छनानांमध्ये सप्तमी उत्तरमन्दाभिदानामूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुत्पादनयाच मुख्यवृत्या वादयिता मूर्छितो भवति, परमभेदोपचारात्वीणाऽपि मूर्च्छितेत्युक्ता, साऽपि यद्य३ सप्रतिष्ठिता न भवति ततो न मूर्च्छनाप्रकर्ष विदधाति तत आहअङ्के-स्त्रियाः पुरुषस्य वा उत्सङ्गे सुप्रतिष्ठितायाः, तथा कुशलेनवादननिपुणेन नरेण पुरुषेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org