________________
प्रतिपत्तिः - ३, दीव०
२१५
अलङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहिताः, तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि ततः पूर्वेभ्यो लेशतो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, 'छद्दोसविप्पमुक्क' ति षड्भिर्दोषैर्विप्रमुक्तं षडदोषविप्रमुक्तं, ते च षड् दोषा अमी- 'भीयं दुयमुप्पिच्छं उत्तालं कागस्सरमणुणासं च' । उक्तञ्च
119 11
“भीयं दुयमुप्पिच्छत्थमुत्तालं च कमसो मुणेयव्वं ।
काकस्सरमणुनासं छद्दोसा होंति गेयस्स ॥"
तत्र 'भीतम्' उत्रस्तं, किमुक्तं भवति ? - यदुत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनधर्म्मानुवृत्तत्वाद्भीतमुच्यते, 'द्रुतं' यत्वरितं गीयते, 'उप्पिच्छं' नाम आकुलम्, उक्तञ्च - “आहित्यं उप्पिच्छं च आउलं रोसभरियंच" अस्यायमर्थ - आहित्यमुप्पिच्छं च प्रत्येकमाकुलं रोषभृतं वोच्यत इति, आकुलता च श्वासेन द्रष्टव्या तथा पूर्वसूरिभिव्यार्खयानात्, उक्तञ्च मूलटीकायाम् - "उप्पिच्छं श्वासयुक्त”मिति, तथा उत्-प्राबल्येनातितालमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं, नासिकाविनिर्गतस्वरानुगतमिति भावः तथा 'आट्ठगुणोववेय' मिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः- पूर्णं रिक्तमलङ्कृतं व्यक्तमविपु (घु) ष्टं मधुरं समं सललितं च, तथा चोक्तम्
"
119 11
“पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविपु (घु) द्वं ।
महुं समं सललियं अट्ठ गुणा होंति गेयस्स ॥"
तत्र यत्स्वरकलाभिः पूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यद् गीयते तद्रक्तम्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्क तमेव गीयते तदलङ्कृतम्, अक्षरस्वरस्फुटकरणतो वयक्तं, विस्वरं क्रशतीव विपु (घु)ष्टं न विघुष्टमविपु (धु) ष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनेति सललितं, यदिवा यच्छ्रोत्रेन्दिरयस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्
इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह - 'रत्तं तिट्ठाणकरणसुद्ध' मित्यादि, 'रक्तं ' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थानकरणशुद्धं' त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन-क्रियया शद्धं त्रिस्थानकरणशुद्धं तद्यथा - उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धं च तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एव यदि कण्ठे वर्त्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरः प्राप्तः सन्सानुनासिको भवति ततः शिरोविशुद्धं, यदिवा यद् उरः कण्ठशिरोभि श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरःकण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तन्त्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यत्तन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्री सुसंप्रयुक्तं ।
तथा परस्पराहत हस्ततालस्वरानुवर्त्ति यद् गीतं तत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानागाहतानां यो ध्वनिर्यश्च नृत्युन्त्या नर्त्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा श्रृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तभ्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं वंशतव्यादिभि स्वरो गृहीस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org