SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः -३, दीव० १९७ त्रिभागोनत्वात्, उपरितनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमयाप्रकटयति'गोपुच्छसंठाणसंठिया गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊर्वीकृतगोपुच्छाकारा इति भावः, 'सव्ववइरामई' सर्वात्मना-सामस्त्येन वज्रमयी-वज्ररलात्मिका 'अच्छा' आकाशस्फटिकवदतिखच्छा 'सण्हा लण्हा' श्लक्ष्णा-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्ण- दलनिष्पन्नपटवत् ‘लण्हा' मसृणा घुण्टितपटवत् ‘घट्टा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् ‘मट्ठा' मृष्टा इव मृष्टा सुकुमारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमरहिता वा निकंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थ छायादीप्तिर्यस्याः सा निष्कङ्कटच्छाया 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गतकिरणजाला । अत एव 'सोद्योता' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रासादीया' प्रसादायमनःप्रसत्तये हिता तत्कारित्वात्प्रासादीया मनःप्रह्लत्तिकारिणीतिभावः ‘दर्शनीया' सदर्शनयोग्या यां पश्यतश्चक्षुषी श्रमंन गच्छत इति अभिरूवा' इति अभि-सर्वेषांद्रष्टणांमनःप्रसादानुकूलतयाऽभिमुखंरूपंयस्याःसाअभिरूपा, अत्यन्तकमनीयेतिभावः, अतएव 'प्रतिरूपा प्रतिविशिष्टम्असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा। 'सा णं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानि जालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटकःसमूहोजालकटकोजालकाकीर्णा रम्यसंस्थानप्रदेशविशेषपङि कतरितिभावः, तेनजालकटकेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता। ___ “सेणंजालकडए' इत्यादि, सः' जालकटकऊर्द्धमुच्चैस्त्वेनार्द्धयोजनं-द्वेगव्यतेविष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति?-जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि च प्रत्येकमूर्द्धमुच्चैस्त्वेन द्वेगव्यते विष्कम्भतः पञ्चधनुःशतानीति, सचजालकटकः सव्वरयणामए' इति सर्वात्मना रत्नमयः 'अच्छे सण्हे लण्हे जाव पडिस्वे' इति यावच्छब्दकरणात् ‘घ8 मढे नीरए निम्मले निप्पंके निक्ककडच्छाये सप्पभे समरीए सउज्जोए पासाइए दरिसणिज्जे अभिरुवे' इति परिग्रहः, एतेषां पदानामार्थ प्राग्वत्॥ - "पवर वेदिका" अधिकारःमू. (१६३) तीसे णं जगतीए उपिं बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पं०, साणं पउमवरवेदिया अद्धजोयणं उड्डू उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयणामए जगतीसमिया परिक्खेवेणं सव्वरयणामई०। तीसेणंपउमवरवेइयाए अयमेयारूवे वन्नावासे पन्नत्ते, तंजहा-वइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहितक्खमईओ सूईओ नानामणिमया कलेवराकलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ जोतिरसामयावंसावंसकवेल्लुयाय रययामईओ पट्टियाओ जातरूवमयीओ ओहाडणीओ वइरामयीओ उवरि पुञ्छणीओ सव्वसेए रययामते साणं छादणे ॥ सा णं पउमवरवेइया एगमेगेणं हेमजालेणं (एगमेगेणं गवक्खजालेणं) एगमेगेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy