SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१६२ जोयणाई विक्खंभेणं उप्पिं चत्तारि जोयणाई विखंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुयागोपुच्छसंठाणसंठिता सव्ववइरामई अच्छा सण्हालण्हाघट्टामट्ठानीरया निम्मला निप्पंका निक्कं कडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥सा णंजगती एक्केणंजालकडएणं सव्वतो समंता संपरिक्खित्ता॥ से णं जालकडएणं अद्धजोयणं उड्डे उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सवरयणामए अच्छे सण्हे लण्हे (जाव) घढे मढे नीरए निम्मले निप्पंके निक्ककंडच्छाए सप्पभेसस्सिरीए समरीए सउज्जोए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे ॥ वृ. 'तत्थ णमित्यादि, 'तत्र' तेषु द्वीपसमुद्रेषु मध्ये 'अयं यत्र वयं वसामो जम्बूद्वीपो नामद्वीपः, कथम्भूतः? इत्याह-सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः' सर्वात्मना-सामस्त्येनाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः, प्राकृतलक्षणात्स्वार्थे कप्रत्ययः, केषां सर्वात्मनाऽभ्यन्तरकः?, उच्यते, सर्वद्वपसमुद्राणां, तथाहि-सर्वेऽपिशेषा द्वीपसमुद्राजम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगुणविस्तारास्ततो भवति सर्वद्वीपसमुद्राणां सर्वाभ्यन्तरकः, अनेन जम्बूद्वीपस्यावस्थानमुक्तं। ___ 'सव्वखुड्डाग' इति सर्वेभ्योऽपि शेषद्वीपसमुद्रेभ्यः क्षुल्लको-लघुः सर्वक्षुल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे च धातकीखण्डादयो द्वीपा जम्बूद्वीपादारभ्य द्विगुणद्विगुणायामविष्कम्भपरिधयस्ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, एतेन सामान्यतः परिमाणमुक्तं, विशेषतस्त्वयामादिगतंपरिमाणमग्रवक्ष्यति, तथा वृत्तोऽयंजम्बूद्वीपो जतस्तैलापूपसंस्थानसंस्थितः, तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्वइति, तैलविशेषणं, तस्येव यत्संस्थानंतेन संस्थितस्तैलापूपसंस्थानसंस्थितः, तथा वृत्तोऽयंजम्बूद्वीपोयतो –'रथचक्रवालसंस्थानसंस्थितः' रथस्य-रथाङ्गस्य चक्रस्यावयवे समुदायोपचाराचक्रवालं-मण्डलं तस्येव यत् संस्थानं तेन संस्थितो रथचक्रवालसंस्थानसंस्थितः, एवं वृत्तः पुष्करकर्णिकासंस्थानसंस्थितः पुष्करकर्णिकाःपद्मबीजकोशः वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः परद्वयं भवानीयम्, एतेन जम्बूद्वीपस्य संस्थानमुक्तम्। सम्प्रत्यायामदिपरिमाणमाह-'एक्क ण'मित्यादि, एक जनशतसहस्रमायामविष्कम्भेन, आयामश्च विष्कम्भश्च आयामविष्कम्भं, समाहारो द्वन्द्वः, तेन, आयामेन विष्कम्भेन चेत्यर्थः, त्रीणियोजनशतसहस्राणिषोडशसहस्राणिद्वे योजनशतेसप्ताविंशत्यधिकेत्रयःक्रोशाअष्टाविंशम्अष्टाविंशत्यधिकं धनुःशतंत्रयोदशाङ्गुलानिअर्धाङ्गुलंच किञ्चिद्विशेषाधिकमित्येतावान्परिक्षेपेण प्रज्ञप्तः, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी दृस्स परिरओ होइ ।' इति करणवशात्स्वयमानेतव्यं क्षेत्रसमासटीका वा परिभावनीया, तत्र गणितभावनायाः सविस्तरं कृतत्वात्।सम्प्रत्याकारभावप्रत्यवतारप्रतिपादनार्थमाह-'सेण'मित्यादि, ‘सः' अनन्तरोक्तायामविष्कम्भपरिक्षेपपरिमाणोजम्बूद्वीपो णमितिवाक्यालङ्कारे एकया जगत्या सुनगरप्राकारकल्पया 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन ‘संपरिक्षिप्तः' सम्यग्वेष्टितः। ___'साणंजगई' इत्यादि, साचजगती ऊर्ध्वम्-उच्चैस्त्वेनाष्टौ योजनानि मूले द्वादशयोजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा, मध्ये संक्षिप्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy