________________
१९५
प्रतिपत्तिः-३, दीव० दीवसमुद्दा पन्नत्ता' इति आकारभावः-स्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवताराः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः,णमितिपूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ताः?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रश्नः कृतः,
___ भगवानाह-'गोयमे त्यादि, गौ०! जम्बूद्वीपादयो द्वीपा'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेनद्वीपानांसमुद्राणां चादिरुक्तः, एतच्चापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवतेशिष्यायापृष्टमपिकथनीयमितिस्थापनार्थंच, 'संठाणतो' इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य ‘एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इतिभावः, सर्वेषांवृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधानानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपाइत्यर्थः, तदेव नानास्वरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्तः' प्रकर्षेण विस्तारं गच्छन्तः तथाहि-जम्बूद्वीप एकंलक्षं लवणसमुद्रो द्वेलक्षेधातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया इतिअवभासमाना वीचयः कल्लोला येषां तेअवभासमानवीचयः, इदं विशेषणं समुद्राणांप्रतीतमेद।
द्वीपानामपि च वेदितव्यं, तेष्वपि हृदनदीतडागादिषु कल्लोलसम्भवात्, तथा बहुभिरुत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डीकशतपत्रसहनपत्रैः ‘पप्फुल्ल'त्ति प्रफुल्लैः-विकसितैः 'केसरे तिकेसरोपलक्षितैरुपचिताः-उपचितशोभाका बहूत्पलपद्मकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पद्म-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पद्मं सुभगं-पद्मविशेषः सौगन्धिकं कल्हारं पौण्डरीकं-सिताम्बुजंतदेव बृहत्मपौण्डरीकंशतपत्रसहमपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदौ, 'पत्तेयं २' इति प्रतिशब्दोऽत्राभइणउख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पद्मवरवेदिकापरिक्षिप्ताः प्रत्येक वनखण्डपरिक्षिप्ताश्च । “सयंभूरमणप्जवसाणा' इति जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असङ्ख्येया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थामुक्तम्, 'असंखेज्जा' इत्यनेन सङ्घयानं, 'दुगुणादुगुण मित्यादिना महत्वं संठाणतो' इत्यादिना संस्थानम् ।। सम्प्रत्याकारभाप्रत्यवतारं विवक्षुरिदमाह
मू. (१६२) तत्थ णं अयं जंबुद्दीवे नामंदीवे दीवसमुद्दाणं अभितरिए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते, एकंजोयणसयसहस्सं आयामविखंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साइं दोन्नि य सत्तावीसे जोयणसते तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते ।। से णं एक्कए जगतीए सव्वतो समंता संपरिस्खित्ते॥ सा णं जगती अट्ठ जोयणाइं उडं उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मझे अट्ठ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org