________________
१६
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१२ सामनःपर्याप्तिः६।एताश्चयथाक्रकेन्द्रियाणांसंज्ञिवर्जानांद्वीन्द्रियादीनां संज्ञिनांच चतुष्पञ्चषटसङ्ख्या भवन्ति, उत्पत्तिप्रथमसमये एवच एता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेणच निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्ततइन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमयएव निष्पत्तिमुपगच्छति, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारर्याप्ति प्रथमसमय एव निष्पद्यत इति कथमवसीयते?, उच्यते, इह भगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सत्रमिदमपाठि।
___ “आहारपज्जत्तीए अपञ्जत्तएणं भंते! किं आहारए अनाहारए?, गोयमा ! नो आहारए अनाहारए" इति, तत आहारपर्याप्तयाअपर्याप्तो विग्रहगतावेवोपपद्यतेनोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्यप्रथमसमय एवाहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिवृत्ति, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्तयाअपर्याप्तः स्यात्तत एवं व्याकरणसूत्रंपठेत्-"सिय आहारए सिय अनाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणनहारए" इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, अभ्रादिभ्य' इतिमत्वर्तीयोऽप्रत्ययः,पर्याप्ता एवपर्याप्तकाः, ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ताः अपर्याप्ता एवापर्याप्तकाः,तेद्विधा-लब्ध्याकरणैश्व, तत्रयेऽपर्याप्तका एव म्रियन्तेतेलब्ध्याऽपर्याप्तकाः,येपुनः करणानि-शरीरेन्द्रियादीनिनतावनिवर्तयन्तिअथचावश्यंनिर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः-।
सम्प्रति विनेयजनानुग्रहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं सङ्ग्रहणिगाथाद्वयमाह - मू. (१३) सरीरोगाहणसंघयण संठाणकसाय तह य हुंति सन्नाओ।
लेसिदिय समुग्घाए सन्नी वेए य पज्जत्ती दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे
उववायठिई समुग्धाय चवणगइरागई चेव॥ वृ.अस्य व्याख्या-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तर संस्थानं, ततः कषायाः, ततः कति भवन्ति संज्ञाः? इति वक्तव्वं, ततोलेश्याः, तदनन्तरमिन्द्रियाणि, ततः समुद्घाताः, ततः किं संज्ञिनोऽसंज्ञिनोवा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, ततः पर्याप्तयो यथा कति पर्याप्तयः सूक्ष्मपृथिवीकायिकानाम्? इत्यादि । पर्याप्तिग्रहणमुपलक्षणंतेन तत्प्रतिपक्षभूताअपर्याप्तयोऽपि वक्तव्या इति द्रष्टव्यं, तदनन्तरं दृष्टिवक्तव्या, ततो दर्शनं, तदनन्तरं ज्ञानं, ततो योगः, तत उपयोगः, तथा किमाहारमाहारयन्ति सूक्ष्मपृथिवीकायिकाः? इत्यादि वक्तव्यं, तदनन्तरमुपपातः,ततः स्थिति, ततः समुद्घातः समुद्घातमधिकृत् मरणं वक्तव्यमित्यर्थः, तदनन्तरं च्यवनं, ततो गत्यागती इति, इति सर्वसङ्ख्यया त्रयोविंशतिाराणि, तत्र प्रथमद्वारव्याख्यानार्थमाह
मू. (१४) तेसिणं भंते ! जीवाणं कतिसरीरया पन्नत्ता, गोयमा ! तओ सरीरगा पं०, तं०-ओरालिए तेयए कम्मए । तेसिणं भंते ! जीवाणं केमहालिया सरीरोगाहणा पं०, गो० ! जहन्नेणं अंगुलासंखेजतिभागं उक्कोसेणवि अंगुलासंखेज्जतिभागं।
तेसिणं भंते! जीवाणं सरीरा किंसंघयणा पन्नत्ता?, गोयमा! छेवट्ठसंघयणा पन्नत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org