________________
प्रतिपत्तिः-१,
१५
२ वणस्सइकाइया ३।
वृ.अथ केतेस्थावराः?, सूरिराह-स्थावरासस्त्रिविधाःप्रज्ञप्ताः, तद्यथा-पृथिवीकाया एवपृथिवीकायिकाः, आर्षत्वात्स्वार्थेइकप्रत्ययः,आपो-द्रवास्ताश्चप्रतीताःताएव कायः-शरीरं येषां ते अकायाः अप्काया एवाप्कायिकाः, वनस्पति-लतादिरूपःप्रतीतः स एव कायः-शरीरं येषांते वनस्पतिकायाःवनस्पतिकायाएववनस्पतिकायिकाः, सर्वत्र बहुवचनंबहुत्वख्यापनार्थं, तेन पृथिवी देवते'त्यादिना यत्तदेकजीवत्वमात्रप्रतिपादनंतदपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकत्वेऽप्यविरोधः।
इह सर्वभूताधारः पृथिवीती प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तप्रतिष्ठितत्वादकायिकाना, तदनन्तरं जत्थ जलंतत्थवणं इतिसैद्धान्तिकवस्तुप्रतिपादनार्थंवनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तविविवक्षणात्, तथा च तत्वार्थसूत्रमप्येवं "पृथिव्यम्बुवनस्पतयः स्थावराः ॥ तेजोवायू द्वीन्द्रियादयश्चत्रसाः" इति, तत्र यथोद्देशं निर्देश' इतिप्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह
मू. (११) से किं तंपुढविकाइया?, २ दुविहा पं०, तं०-सुहमपुढविक्काइया य बायरपुढविक्काइया य॥
वृ.अथ के ते पृथिवीयिकाः ?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, तत्रसूक्ष्मनामकर्मोदयात्सूक्ष्माबादरनामकर्मोदयात्त बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे, नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचको, सूक्ष्माः सकललोकवर्तिनो बादराः प्रतिनियतैकदेशधारिणः ।
तत्र सूक्ष्मपृथिवीकायिकप्रतिपादनार्थमाहमू. (१२) से किंतंसुहुमपुढविक्कइया?, २ दुविहा पं०, तं०-पज्जत्तगाय अपजत्तगाय॥
वृ.अथ केते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाश्च, तत्र पर्याप्तिामाहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सच पुद्गलोपचयादुपजायते, किमुक्तं भवति?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यःशक्तिविशेषआहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुःसापर्याप्तिसाचषोढा, तद्यथाआहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः३प्राणापान०भाषापर्याप्ति०५ मनःपर्याप्तिश्च ६
तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः १, यया रसीभूतमाहारं रसासृग्मांसभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतयापरिणमयति साशरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति साइन्द्रियपर्याप्ति ३, यया पुनरुच्छ्वासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतयापरिणमय्यालम्ब्यचमुञ्चति सा उच्छ्वासपर्याप्तिः४, यया तु भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५, यया पुनर्मनःप्रायोग्वर्गमादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्यच मुञ्चति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org