________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/७
प्रतिपादनानि संवित्तय इतियावत् ' एवं' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभि, इह प्रतिपत्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् तेन यदुच्यते शब्दाद्वैतवादिभिः - 'शब्दमात्रं विश्व' मिति, पदपास्तं द्रष्टव्यं तदपासनेचेयमुपपत्ति- एकान्तैकस्वरूपे वस्तु न्यभिदानद्वयासंम्भवात् भिन्नप्रवृत्तिनिमित्ताभावात्, ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति, तद्यथा - एके आचार्या एवमाख्यातवन्तः - द्विविधाः संसारसमापन्ना जीवाः प्रज्ञप्ताः ।
१४
एके आचार्या एवमाख्यातवन्तः - त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति, इह एके इति न पृथग्मतावलम्बिनो दर्शनान्तरीया इव केचिदन्ये आचार्या, किन्तु य एव पूर्वं द्विप्रत्यवतारविवक्षायां वर्त्तमाना एवमुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इति त एव त्रिप्रत्यवतारविवक्षायां वर्त्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यत्वात्, विवक्षावतां तु कथञ्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम् । इङहय एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेषामनेकस्वभाव- तायां तत्तद्धर्मभेदेन तथा तताऽभिधानता युज्यते, नान्यथा, एकान्तैकस्वभावतायां तेषां वैचित्र्यायोगतस्तथा तथाऽभिधानप्रवृत्तेरसम्भवात् एवं सति । “अष्टविकल्पं दैवं तिर्यग्योनं च पञ्चधा भवति ।
119 11
मानुष्यं चैकविधं समासतो भौतिकः सर्ग ॥” इति ।
वाड्यात्रमेव, अधिष्ठातृजीवानामेकरूपत्वाभ्युपगमेन तथारूपवैचित्र्यासम्भवादिति, एवमन्येऽपि प्रवादास्तथा तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, त्वाभ्युपगतौ वैचित्र्यायोगात् ।
सर्वथैकस्वभाव
सम्प्रत्येता एव प्रतिपत्तीः क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्तिं विभावयिषुरिदमाह– मू. (९) तत्थ (i) जे एवमाहंसु 'दुविहा संसारसमावण्णगा जीवा पं०' ते एवमाहंसु - तं०तसा चैव थावरा चैव ॥
वृ. 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये द्विप्रत्यवतारविवक्षायां वर्त्तमाना एवं व्याख्यातवन्तः - द्विविधाः संसारसमापन्नका जीवाः प्रज्ञप्ता इति ते 'णम्' इ वाक्यालङ्कारे ' एवं ' वक्ष्यमाणरीत्या द्विविधत्वभावनार्थमाख्यातवन्तः, 'तद्यथे' त्युपन्यस्तद्वैविध्योपदर्शनार्थः, त्रसाश्चैव स्थावराश्चैव, तत्र त्रसन्ति- उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुर्द्विजन्ति गच्छन्ति च छायाद्यासेवनार्थं स्थानान्त- रमिति त्रसाः, अनया च व्युत्पत्त्या त्रसास्त्रसनामकर्मोदयवरत्तिन एव परिगृह्यन्ते, न शेषाः, अथ शेषैरपीह प्रयोजनं, तेषामप्यग्रे वक्ष्यमाणत्वात् ।
तत एवं व्युत्पत्तिः - सन्ति - अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक् चलन्तीति त्रसा:- तेजोवायवो द्वीन्द्रियादयश्च, उष्णाद्यभितापेऽपि तत्स्थानपरिहारासमर्थाः सन्तस्तिष्ठन्तीत्येवंशीलाः स्थावराः - पृथिव्यादयः, चशब्दौ स्वगतानेकभेदसमुच्चयार्थी, एवकाराववधारणार्थौ, अत एव संसारसमापन्नका जीवाः, एतद्वयतिरेकेण संसारिणामभावात् । तत्राल्पवक्तव्यत्वात्प्रथमतः स्थावरानभिधित्सुस्तठप्रश्रसूत्रमाह
मू. (१०) से किं तं थावरा ?, २ तिविहा पन्नत्ता, तंजहा- पुढविकाइया १ आउक्काइया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International