________________
१३
प्रतिपत्तिः - 9,
जे वण्णपरिणया ते पंचविहा पन्नत्ता, तंजहा - कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे ॥
मू. (६) से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पन्नते, तंजहा- संसारसमावण्णगजीवाभिगमे य असंसारमावण्णगजीवाभिगमे य ।
वृ. संसरणं संसारो - नारकतिर्यङ्नरामरभवभ्रमणलक्षणस्तं सम्यग् - एकीभावेनापन्नाःप्राप्ताः संसारसमापन्नाः – संसारवर्त्तिनस्ते च ते जीवाश्च तेषामभिगमः संसारसमापन्नजीवाभिगमः, तथा न संसारोऽसंसाः - संसारप्रिपक्षभूतो मोक्ष इत्यर्थः तं समापन्ना असंसारसमापन्नास्ते च ते जीवाश्च तेषामभिगमोऽसंसारसमापन्नजीवाभिगमः, चशब्दौ उभयेषामपि जीवानां जीवत्वं प्रति तुल्यकक्षतासूचकौ, तेन ये विध्यातप्रदीपकल्पं निर्वाणमभ्युपगतवन्तः ये च नवानामात्मगुणानामत्यन्तोच्छेदेन ते निरस्ता द्रष्टव्याः, तथाभूतमोक्षाभ्युपगमे तदर्थं प्रेक्षावतां प्रवृत्यनुपपत्तेः, न खलु सचेतनः स्ववधायकण्ठ कुठारिकां व्यापारयति, दुःखितोऽपि हि जीवन् कदाचिद् भद्रमाप्नुयात् भृतेन तु निर्मूलमपि हस्तिताः सम्पद् इति, इह केवलान् अजीवान् जीवांश्चानुच्चार्याभिगमशब्दसंलितप्रश्नोऽभिगमव्यतिरेकेण प्रतिपत्तेरसन्मवतस्तेषामभिगमगम्यताधर्मख्यापनार्थ तेन 'सदेवेद' मित्यादि सदद्वैद्यपोह उक्तो वेदितव्यः, सदद्वैताद्यभ्युपगमेऽभिगमगम्यतारूपधर्मायोगतः प्रतिपत्तेरेवासम्भात् ।
मू. (७) से किं तं असंसारसमावण्णगजीवाभिगमे ?, २ दुविहे पन्नत्ते, तंजहा- अनंतर - सद्धासंसार- समावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य ।
से किं तं अनंतरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ पन्नरसविहे पन्नत्ते, तंजहातित्थसिद्धा जाव अनेगसिद्धा, सेत्तं अनंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ अणेगविहे पण्णत्ते, तंजहा - पढम- समयसिद्धा दुसमय सिद्धा जाव अणंतसमयसिद्धा, से तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे, सेत्तं असंसारसमावण्णगजीवाभिगमे ।
?
वृ. तत्राल्पवक्तव्यत्वात्प्रथमतोऽसंसारसमापन्नजीवाभिगमसूत्म्- 'से किं तं असंसारसमावन्नजीवाभिगमे ?, २ दुविहे पं० तं० - अनंतरसिद्ध असंसारसमावन्नजवाभिगमे परंपरसिद्धअसंसारसमावन्नजीवाभिगमे य' इत्यादि तावद्वाच्यं यावदुपसंहारवाक्यं 'सेत्तं असंसारसमापन्न- जीवाभिगमे' अस्य व्याख्यानं प्रज्ञापनाटीकातो वेदितव्यं तत्र सविस्तरमुक्तत्वात् । सम्प्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रश्नसूत्रमाह
मू. (८) से किं तं संसारसमावन्नजीवाभिगमे ?, संसारसमावण्णएसु णं जीवेसु इमाओ नव पडिवत्तीओ एवमाहिज्जंति, तं० - एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं० । एगे एवमाहंसु - तिविहा संसारसमावण्णगा जीवा पं० । एगे एवमाहंसु - चउव्विहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०
एतेणं अभिलावेणं जाव दसविहा संसारसमावण्णगा जीवा पन्नत्ता ।
वृ. ‘सूरिराह–संसारसमापन्नेषु णमिति वाक्यालङ्गारे जीवेषु 'इमाः' वक्ष्यमाणलक्षणा ‘नव प्रतिपत्तयो’ द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International