________________
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४ मृगयन्ते, आकाशत्वमात्रस्योभयत्रा तुल्यत्वात्, विशेषणमन्तरेणच वैशिष्टयायोगात्, कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावोनपरस्येत्यपिकुतःप्रमाणात्परिकल्प्यते?,आगमप्रमाणादितिचेत्तथाहि-तावत्येवाकाशखण्डे जीवानां च पुद्गलानां च गतिस्थितिमतां गतिस्थिती तत्र तत्र व्यावण्येर्ते न परत इति, यद्येवंतागमप्रामाण्य-बलादेव धर्माधर्मास्तिकायावपिगतिस्थितिनिबन्धनमिष्येयातांकिमाकाशखण्डस्य निर्मूल-स्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन।
अथामीषामित्थंक्रमोपन्यासे किंप्रयोजनम्?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा च सम्प्रत्युत्क्षिप् वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानां, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपिचानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य,ततः पुनरजीवासाधम्यादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभून भवतः, तद्विभुत्वेन तत्सामर्थ्यतो जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्तिचलोकालोकव्यवस्था, तत एतावविभूसन्तौ यत्र क्षेत्रे समवगाढौ तावत्प्रमामो लेकः, शेषस्त्वलोक इति सिद्धम्, उक्तंच॥१॥ "धर्माधर्मविभुत्वात्सर्वत्र च जीवपुद्गलविचारात् ।
नालोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ ॥२॥ तस्माद्धर्माधर्माववगाढौ व्याप्य लोकखं सर्वम् ।
एवं हि परिच्छिन्नः सिद्धयति लोकस्तदविभुत्वात् ॥ तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात्प्रथमतोधर्मास्तिकायस्य, तत्प्रतिपक्षत्वात्ततोऽधर्मास्तिकायस्य, ततोलोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपियुक्त्यनुपावक्तव्यमित्यलंप्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं'सेत्तं अरूविअजीवाभिगमे।
मू. (५) से किंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमेचउबिहे पन्नते, तंजहा-खंधा स्वंधदेसा खंधप्पएसा परमाणुपोग्गला, ते समासतो पंचविहा पन्नता, तंजहा-वण्णपरिणया गंध० रस० फास० संठाणपरिणया, एवं ते ५ जहा पण्णवणाए, सेत्तं रूविअजीवाभिगमे, सेत्तं अजीवाभिगमे।
वृ.अतऊर्ध्वमिदंसूत्रम्-‘से किंतंरूविअजीवाभिगमे?, रूविअजीवाभिगमेचउब्बिहे पन्नत्ते,तं०-खंधाखंधदेसा खंधपएसापरमाणुपुग्गला' इह स्कन्धाइत्यत्रबहुवचनंपुद्गलस्कन्धानामनन्तत्वख्यापनार्थं, तथाचोक्तम्-“दव्वतोणं पुग्गलस्थिकाएणंअनन्ते" इत्यादि, स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतांबुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिककेषु स्कन्धेषु स्कन्धदेशानन्तत्वसम्भावनार्थं, 'स्कन्धप्रदेशाः' स्कन्धानां स्कन्धत्वपरिणाममजहतांप्रकृष्ट देशाः-निर्विभागाभागाः परमाणवइत्यर्थः, ‘परमाणुपुद्गलाः' स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः । अत ऊर्ध्वं सूत्रमिदम्-'ते समासतो पंचविधा पन्नत्ता, तंजहा-वण्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org