________________
प्रतिपत्तिः - ३, ति० उद्देशकः २
स्थिति-रन्तर्मुहूर्त वक्तव्या ॥ सम्प्रति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनां चतुर्विंशतिदण्डकक्रमेण स्थितिं निरूपयितुकाम आह- 'नेरइयाणं भंते!' इत्यादि, नैरयिकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विंशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमान- देवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान्न लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितनिरूपणार्थमाह
'जीवे णं भंते!' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थ ?, उच्यते, कायो नाम जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थिति कायस्थिति, किमुक्तं भवति ? - यस्य वस्तुनो येन पर्यायेण - जीवत्वलक्षणेन पृथिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा कायस्थिति, तत्र जीव इति "जीव प्राणधारणे" जीवति -! - प्राणान् धारयतीति जीवः, प्राणाश्च द्विधाः द्रव्यप्राणा भावप्राणाश्च तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्तञ्च॥ १ ॥ “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥"
भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तञ्च - "ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैर्ही "ति, इह च विशेषानुपादानादुभयेषामपि ग्रहणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति - जीवनपर्यायविशिष्टः कालतः - कालमधिकृत्य कियच्चिरं भवति ?, भगवानाह - सर्वाद्धां, संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात्, अथवा जीव इति न एकः प्रतिनियतो जीवो विवक्ष्यते किन्तु जीवसामान्यं, ततः प्राणधारणलक्षणजीवनाभ्युपगमेऽपि न कश्चिद्दोषः, तथाहि
'जीवे णं भंते!' इत्यादि, जीवो णमिति पूर्ववद् भदन्त ! जीव इति - जीवन्निति प्राणान् धारयन्नित्यर्थ कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां, जीवसामान्यस्यानाद्यनन्तत्वात्, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं यत उक्तं मूलटीकायां - "जीवे णं भंते इत्यादि, एषा ओघकायस्थिति सामान्यजीवोपेक्षिणीति सर्वाद्धया निर्वचनम्" । एवं च पृथिवीकायादिष्वप्यदोषः, एवत्सामान्यस्य सर्वदैव भावादिति । एवं गतीन्द्रियकायादिद्वारैर्यथा प्रज्ञापनायामष्टादशे कायस्थितिनामके पदे कायस्थितिरुक्ता तथाऽत्र सर्वं निरवशेषं वक्तव्यं यथा उपरि तत्पदगतं न किमपि तिष्ठति, गतीन्द्रियकायादिद्वारसङ्ग्राहके चेमे गाथे
119 11
" गइ इंदिए य काए जोगे वेए कसाय लेसा य । सम्मत्तनाणदंसणसंजयउवओगआहारे ॥ भासगपरित्तपजत्तसुहुम सण्णी भवऽत्थि चरिमेय । एएसिं तु पयाणं कायठिई होइ नायव्वा ॥
सूत्रपाठस्तु लेशतो दर्श्यते - "नेरइया णं भंते! नेरइयत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं । तिरिक्खजोणिए णं भंते ! तिरिक्खजोणियत्ति कालतो केवच्चिरं होइ ?, गोयमा! जहनेणं अंतोमुहुत्तमुक्कोसेणमनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो अनंता लोगा असंखेज्जा पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो" इत्यादि ।
॥२॥
Jain Education International
For Private & Personal Use Only
१५७
www.jainelibrary.org