________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / ति०-२/१३५
सम्प्रति सामान्यपृथिवीकायादिगतकायस्थितिनिरूपणार्थमाह- 'पुढविक्काइए णं भंते!' इत्यादि, पृथिवीकायिको भदन्त !, सामान्यरूपोऽत एव जातोवेकवचनंन व्यक्तयेकत्वे पृथिवीकाय इति कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! सर्वाद्धां, पृथिवीकायामान्यस्य सर्वदैव भावात् । एवमप्तेजोवायुवनस्पतित्रसकायसूत्राण्यपि भावनीयानि ॥ सम्प्रति विवक्षिते काले जघन्यपदे उत्कृष्टपदे वाकियन्तोऽभिनवा उत्पद्यमानाः पृथिवीकायिकादयः ? इत्येतन्निरूपणार्थमाह मू. (१३६) पडुप्पन्नपुढविकाइया णं भंते! केवतिकालस्स निल्लेवा सिता ?, गोयमा ! जहन्नपदे असंखेज्जहिं उस्सप्पिणिओसप्पिणीहिं उक्कोसपए असंखेज्जाहिं उस्सप्पिणी ओसप्पिणीहिं, जहन्नपदातो उक्कोसपए असंखेज्जगुणा, एवं जाव पडुप्पन्नवाउक्काइया ।
पडुप्पन्नवणप्फइकाइयाणं भंते ! केवतिकालस्स निल्लेवा सिता ?, गोयमा ! पडुप्पन्नवण० जहन्नपदे अपदा उक्कोसपदे अपदा, पडुप्पन्नवणप्फतिकाइयाणं णत्थि निल्लेवणा ।
पडुप्पनतसकाइयाणं पुच्छा, जहन्नपदे सागरोवमसतपुहुत्तस्स उक्कोसपदे सागरोवमसतपुहुत्तस्स, जहन्नपदा उक्कोसपदे विसेसाहिया ॥
१५८
वृ. 'पडुप्पन्नपुढविक्काइया णं भंते! केवइकालस्स निल्लेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिकाः- तत्कालमुत्पद्यमानाः पृथिवीकायिका भदन्त ! 'केवइकालस्स' त्ति तृतीयार्थे षष्ठी कालेन निर्लेपाः स्यु ?, प्रतिसमयमेकैकापहारेणापहियमाणाः कियता कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाह - गौतम ! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्वबहवो भवन्ति तदाऽपीति भावः असङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिर्नवरं जघन्यपदादुत्कृष्टपदिनोऽसङ्घयेयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि । वनस्पतिसूत्रमाह- 'पडुप्पन्नेत्यादि, प्रत्युत्पन्नवनस्पतिकायिका भदन्त ! कियता कालेन निर्लेपः स्यु ?, भगवानाह - गौतम ! प्रत्युत्पन्नवनस्पतिकायिका जघन्यपेऽपदा - इयता कालेनापहियन्ते इत्येततपदविरहिता अनन्तानन्तत्वात्, उत्कृष्टपदेऽप्यपदा, अनन्तानन्तया निर्लेपनाऽ- सम्भवात्, तथा चाह- 'पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' इति सुगमं, नवरमनन्तानन्त- त्वादिति हेतुपदं स्वयमभ्यूह्यम् ।
‘पडुप्पन्नतसकाइयाण’मित्यादि, प्रत्युत्पन्नत्रसकायिका भदन्त ! कियता कालेन निर्लेपाः स्यु : ?, भगवानाह - गौतम ! जघन्यपदे सागरोपमशतपृथक्त्वस्य तृतीयार्थे षष्ठी प्राकृतत्वात् सागरोपमशतपृथक्त्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसेयं । इदं च सर्वमुच्यमानं विशुद्धलेश्यसत्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेत्यविशुद्धविशुद्धलेश्यविषयं किञ्चिद्विवक्षुराह
मू. (१३७) अविसुद्धलेस्से णं भंते! अनगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अनगारं जाणइ पासइ ?, गोयमा ! नो इणट्टे समट्ठे । अविसुद्धलेस्से णं भंते ! अनगारे असमोहएणं अप्पाणएणं विसुद्धलेस्सं देवं देविं अनगारं जाणाइ पासइ ?, गोयमा ! नो इणट्टे समट्टे । अविसुद्धलेस्से अनगारे समोहएणं अप्पाणेणं अविसुधलेस्सं देवं देविं अनगारं जाणति पासति ?, गोयमा ! नो इणट्टे समट्टे। अविसुद्धलेस्से अनगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अनगारं जाणति पासति ?, नो तिणट्टे समट्टे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org