SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, ति० उद्देशकः १ १५३ तथा चत्वारि ‘स्थलजानां' कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनां, चत्वारि 'महावृक्षाणां मधुकादीनामिति । 'कइण' मित्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! चतस्रो वल्लयम्रपुष्यादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्त्येन व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन ॥ 'कइण'मित्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह - गौतम ! अष्टौ लता या मूलभेदेन ता अपि संप्रदायादवसातव्याः, मूलटीकाकारेणाव्याख्यानात्, अष्टौ लताशतानि प्रज्ञप्तानि, अवान्तरजातिभेदेन । 'कइ ण' मित्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञमानि ?, भगवानाह - गौतम ! त्रयो हरितकायाः प्रज्ञप्ताः - जलजाः स्थलजा उभयजाः, एकैकस्मिन् शतमवान्तभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं चे' त्यादि, फलसहस्लं च 'वुन्तबन्धानां ' वृन्ताकप्रभृतीनां फलसहस्न च नालबद्धानां, 'तेऽवि सव्वे' इत्यादि, तेऽपि सर्व भेदा अपिशब्दादन्येऽपि तथाविधाः 'हरितकायमेव समवतरन्ति' हरितकयेऽन्तर्भवन्ति हरितकायोऽपि वनस्पतौ वनस्पतिरपि स्थावरेषु स्थावरा अपि जीवेषु, तत एवं समनुगम्यमाना २ स्तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमाणाः समनुग्राह्यमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्त्यमानास्तथा तथा तन्त्रयुक्तिभि, एतयोरेव द्वयोः काययोः समवतरन्ति तद्यथा सकाये च स्थावरकायेच, 'एवामेव' इत्यादि, 'एवमेव' उक्तेनैव प्रकारेण 'सपुव्वावरेणं' पूर्वं चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थ, 'आजीवगदिट्ठतेणं' ति आ - सकलजगदभिव्याप्तया जीवानां यो दृष्टान्तः - परिच्छेदः स आजीवध्ष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकारः “आजीवध्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्नापि भवन्तीत्याख्यातं मयाऽन्यैश्च ऋषभादिभिरिति, अत्र चतुरशीतिसङ्ख्योपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि तथाहि पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुख शतसहस्राणि भुजगपरिसर्पाणां नव उरगपरिसर्पाणां दश चतुष्पदानां दश जलचराणामर्द्धत्रयोदशानि चतुरिन्द्रियाणां नव त्रीन्द्रियाणामष्टी द्वीन्द्रियाणां सप्त पुष्पजातीनां षोडश, एतेषां चैकत्र मीलने त्रिनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं । यत उक्तं चूर्णी - 'आजीवगदिठ्ठतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रश्नमाह मू. (१३३) अत्थि णं भंते ! विमाणाइं सोत्थीयाणि सोत्थियावत्ताइं सोत्थियपभाई सोत्थियकंताइं सोत्थियवन्नाइं सोत्थियलेसाइं सोत्थियज्झयाइं सोत्थिसिंगाराई सोत्थिकूडाइं सोत्थिसिट्ठाइं सोत्युत्तरवडिंसगाई ?, हंता अत्थि । ते णं भंते! विमाणा केमहालता प० ? गोयमा ! जावतिए णं सूरिए उदेति जावइएणं च For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy