SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / ति०-१/१३२ मू. (१३२) कइ णं भंते! गंधा पन्नत्ता ? कइ णं भंते! गंधसया पन्नत्ता ?, गोयमा ! सत्त गंधा सत्त गंधसया पन्नत्ता ।। कइ णं भंते! पुप्फजाई कुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता ?, गोयमा ! सोलसपुप्फजातीकुलकोडीजोणीपमुहसयसहस्सा पन्नत्ता, तंजहा - चत्तारि जलयराणं चत्तारि थलयराणं चत्तारि महारुक्खियाणं चत्तारि महागुम्मिताणं । कति णं भंते! वल्लीओ कति वल्लिसता पन्नत्ता ?, गोयमा ! चत्तारि वल्लीओ चत्तारि वल्लीसता पन्नत्ता ॥ कति णं भंते! लताओ कति लतासता पन्नत्ता ?, गोयमा ! अट्ठलयाओ अट्ठ लतासता प० । कति णं भंते! हरियकाया हरियकायसया प० गो० तओ हरियकाया तओ हरियकायसया पन्नत्ता, फलसहस्संच बिंटबद्धाणं फलसहस्संच णालबद्धाणं, ते सव्वे हरितकायमेव समोयरंति, ते एवं समणुगम्ममाणा २ एवं समणुगाहिज्रमाणा २ एवं समणुपेहिज्जमाणा २ एवं समणुचिंतिजमाणा २ एएसु चैव दोसु काएसु समोयरंति, तंजहा तसकाए चेव थावरकाए चेव, एवमेव सपुव्वावरेणं आजीवियदिट्टंतेणं चउरासीति जातिकुल कोडीजोणीपमुहसतसहस्सा भवतीति मक्खाया ॥ वृ. 'कइ ण'मित्यादि, कति भदन्त ! गन्धाङ्गानि, कवचिद् गन्धा इति पाठस्तत्र पदैकदेशे पदसमुदायोपचाराद् गन्धा इति गन्धाङ्गानीति द्रष्टव्यं प्रज्ञप्तानि ?, तता कति गन्धाङ्गशतानि प्रज्ञप्तानि ?, भगवानाह – गौतम! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धङ्गानि परिस्तूरजातिभेदादमूनि, तद्यथा - मूलं त्वक् काष्ठं निर्यासः पत्रं पुष्पं फलं च, तत्र मूलं मुस्तावालुकोशीरादि, त्वक् सुवर्णछल्लीत्वचाप्रभृति, काष्ठं चन्दनागुरुप्रभृति, निर्यासः कर्पूरादि, पत्रं जातिपत्रतमालपत्रादि, पुष्पं प्रियङ्गुनागरपुष्पादि फलं जातिफलकर्कोलकैलालवङ्गप्रभृति । १५२ एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभिदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत्, गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशत् जाताः पञ्चत्रिंशदेव 'एकेन गुणितं तदेव भवती 'ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चत्रिंशत् रसपञ्चकेन गुण्यते जाताः पञ्चसप्ततिशतं, स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपास्ततः पञ्चसप्ततं शतं स्पर्शचतुष्टयेन गुण्यते जातानि सप्त शतानि, उक्तञ्च - “मूलतयकट्ठनिज्जासपत्तपुप्फष्फलमेय गंधंगा । वण्णादुत्तरभेया गंधंगसया मुणेयव्वा ।। 119 11 अस्य व्याख्यानरूपं गाथाद्वयम्119 11 “मुत्थासुवण्णछल्ली अगुरू वाला तमालपत्तं च । तह य पियंगू जाईफलं च जाईए गंधगा ॥ गुणणाए सत्त सया पंचहिं वण्णेहिं सुरभिगंधेणं । रसपणएणं तह फासेहि य चउहिं मित्ते (पसत्थे ) हि ।। ॥२॥ , अत्र 'जाईए गंधंगा' इति जात्या जातिभेदेनामूनि गन्धाङ्गानि सेषं भावितम् ॥ 'कइ ण 'मित्यादि, कति भदन्त ! पुष्पजातिकुलकटिशतसहस्राणि प्रज्ञप्तानि ?, भगवानाह - गौतम ! षोडश पुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि, तद्यथा - चत्वारि 'जलजानां' पद्मानां जातिभेदेन, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy