SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १४४ मू. (११२) मू. (११३) जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-२/११२ तेसिं महालयाए उवमा देवेण होइ कायव्वा । जीवा य पोग्गला वक्कमंति तह सासया निरया ॥ उववायपरीमाणं अवहारुच्चत्तमेव संघयणं । संठाणवण्णगंधा फासा ऊसासमाहारे । लेसा दिट्ठी नाणे जोगुवओगे तहा समुग्धाया । तत्तो खुहापिवासा विउव्वणा वेयणा य भए । उववाओ पुरिसाणं ओवम्मं वेयणाए दुविहाए । तत्तो खुहापिवासा विउव्वणा वेयणा य भए । एयाओ संगहणिगाहाओ । मू. (११४) मू. (११५) यू. (११६) वृ. सम्प्रत्युद्देशकार्थसङ्ग्रहणिगाथाः प्राह - आसामक्षरमात्रगमनिका - प्रथमं 'पुढवीओ' इति पृथिव्योऽभिधेयास्तद्यथा - "कइ णं भंते! पुढवीओ पन्नत्ताओ ?" इत्यादि । तदनन्तरम् 'ओगाहित्ता नरगा' इति, यस्यां पृथिव्यां यदवगाह्य याध्शाश्च नरकास्तदभिधेयं, यथा- "इमीसे णं भंते! रयण० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवइयं ओगाहित्ता" इत्यादि । Jain Education International ततो नरकाणां संस्थानं ततो बाहल्यं तदनन्तरं विष्कम्भपरिक्षेपौ ततो वर्णस्ततो गन्धस्तदन्तरं स्पर्शस्ततस्तेषां नरकाणां महत्तायामुपमा देवेन भवति कर्त्तव्या, ततो जीवाः पुद्गलाश्च तेषु नरकेषु व्युत्क्रमन्तीति, तथा शाश्वताशाश्वता नरका इति वक्तव्यं, तत उपपातो वक्तव्यः, तद्यथा - "इमीसे णं भंते! रयणप्पभाए पुढवीए कतो उववज्रंति ?” इत्यादि, तत एकसमयेनोत्पद्यमानानां परिमाणं ततोऽपहारस्तत उच्चत्वं तदनन्तरं संहननं ततः संस्थानं ततो वर्णस्तदनन्तरं गन्धस्तः स्पर्शस्तत उच्छ्वासवक्तव्यता तदनन्तरमाहारस्ततो लेश्या ततो दृष्टिस्तदनन्तरं ज्ञानं ततो योगस्ततोऽप्युपयोगस्तदनन्तरं समुद्घातस्ततः क्षुत्पिपासे ततो विकुर्वणा, तद्यथा “रयणप्पभापुढविनेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पुहुत्तं पहू विउव्वित्तए" इत्यादि, ततो वेदना ततो भयं तदनन्तरं पञ्चानां पुरुषाणामधः सप्तम्यामुपपातस्तत औपम्यं वेदनाया द्विविधायाः, उष्णवेदनायाः शीतवेदनायाश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुद्वर्त्तना ततः स्पर्श पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपातः, तद्यथा “इमीसे णं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि सव्वे पाणा सव्वे भूया" इत्यादि । सम्प्रति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम्तृतीया प्रतिपतौ नैरयिकस्य उद्देशकः २ समाप्तः -: "नैरयिकः उद्देशकः-३ मू. (११७) इमीसे णं भंते! रयणप्पभाए पुढवीए नेरतिया केरिसयं पोग्गलपरिणामं पञ्चणुभवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं, एवं जाव अहेसत्तमाए एवं नेयव्वं वृ. 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं 'पुद्गलपरिणाम' आहारादिपुद्गलविपाकं 'प्रत्यनुभवन्तः ' प्रत्येकं वेदयमाना विहरन्ति ?, भगवानाह - गौतम ! अनिष्टमित्यादि प्राग्वर एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी, एवं वेदनालेश्यानामगोत्रारतिभयशोकउच्छासापोपाहारभयमैथुनपरिग्रहसंज्ञिसूत्राणि वक्तव्याति, For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy