________________
प्रतिपत्ति: - ३, नै० उद्देशकः ३
अत्र सङ्ग्रहणिगाथे
119 11
"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य अरई भए यसोगे खुहा पिवासा य वाही य ॥ उसासे अनुतावे कोहे माणे य मायलोभे य। चत्तारिय सण्णाओ नेरइयाणं तु परिणामे ॥
सम्प्रति सप्तमनरकपृथिव्यां य गच्छन्ति तान् प्रतिपादयति - इह परिग्रहसंज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा ततः । मू. (११८) एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडुंबी ॥
॥२॥
१४५
वृ. 'एत्ये' त्यनन्तरमुक्ताऽधः सप्तमी पृथिवी परामृश्यते, 'अत्र' अधः सप्तमनरकपृथिव्यां ‘किल’इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन - बाहुल्येन गच्छन्ति नरवृषभाः 'केशवाः' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसुप्रभृतय इव ‘राजानः’ चक्रवर्त्तिनः सुभूमादय इव ये च महारम्भाः कुटुम्बिनः - कालसौकरिकादय इव । मू. (११९) भिन्नमुहुत्तो नरएसु होति तिरियमणुएसु चत्तारि ।
देवेसु अद्धमासो उक्क से विउव्वणा भणिया ॥
वृ. सम्प्रति नरकेषु प्रस्तावात्तिर्यगादिषु चोत्तरवैक्रयावस्थानकालमानमाह - भिन्नः - खण्डो मुहूर्तो भिन्नमुहूर्त्तः अन्तर्मुहूर्त्मत्यर्थः, नरकेषूत्कर्षतो विकुर्वणास्थितिकालः, तिर्यङ्गनुष्येषु चत्वार्यन्तर्मुहूर्त्तानि, देवेष्वर्द्धमास उर्कम्षतो विकुर्वणाऽवस्थानकालः भणितः एष उत्कर्षतो विकुर्वणाऽवस्थानकालो भणितस्तीर्थकरगणधरैः ।
मू. (१२०) जे पोग्गला अनिट्ठा नियमा सो तेसि होइ आहारो । संठाणं तु जहन्नं नियमा हुंडं तु नायव्वं ॥
वृ. सम्प्रति नरकेष्वाहारादिस्वरूपमाह-ये पुद्गला अनिष्टा नियमात्स तेषां भवत्याहारः, 'संस्थानंतु' संस्थानं पुनस्तेषां हुण्डं हुण्डमपि जघन्यमतिनिकृष्टमनिष्टं वेदितव्यं, एतच्च भवधारणीयशरीरमधिकृत्य वेदितव्यम्, उत्तरवैक्रियसंस्थानस्याग्रे वक्ष्यमाणत्वात्, इयंच प्रागुक्तार्थसङ्ग्रहगाथा ततो न पुनरुक्तदोषः । यू. (१२१)
असुभा विउव्वणा खलु नेरइयाणं तु होइ सव्वेसिं । वेउव्वियं सरीरं असंघयण हुंडसंठाणं ॥
वृ. सम्प्रति विकुर्वणास्वरूपमाह - सर्वेषां नैरयिकाणां विकुर्वणा 'खलु' निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति ते चिन्तयन्ति तथाऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषामशुभैव विकुर्वणा 'खलु' निश्चितमशुभा भवति, यद्यपि शुभं विकुर्विष्याम इति तेचिन्तयन्ति तताऽपि तथाविधप्रतिकूलकर्मोदयतस्तेषाशुभैव विकुर्वणा भवति, तदपि च वैक्रियंउत्तरवैक्रियशरीरमसंहननम्, अस्थ्यभावात्, उपलक्षणमेतत् भवधारणीयं च वैक्रियशरीरमसंहननं, तथा हुण्डसंस्थानं तत् उत्तरवैक्रियशरीरं, हुण्डसंसथाननाम्न एव भवप्रत्ययत उदयभावात्
9 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org