________________
प्रतिपत्तिः - ३, नै० - उद्देशकः २
वेदितव्यो न तु साक्षाद् बादराग्निकायस्पर्श, तत्रासम्भवात् ।
मू. (१०९) इमीसे णं भंते! रयणप्पभाए पु० निरयपरिसामंतुसे जे पुढविक्काइया जाव वणष्फतिकाइया ते णं भंते ! जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव ?, हंता गोयमा ! इमीसे णं [ भंते!] रयणप्पभाए पुढवीए निरयपरिसामंतेसु तं चैव जाव महावेदनतरका चेव, एवं जाव अधेसत्तमा ।
वृ. ‘इमीसेण’मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां त्रिंशति नरकावासशतसहस्रेषु एकैकस्मिन् नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिकाः 'सर्वे सत्वाः ' पृथिव्यादयः 'सर्वे जीवाः' पञ्चेन्द्रियाः, उक्तञ्च
119 11
“प्राणा द्वित्रिचतुः प्रोक्ता, मूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्वा उदीरिताः ॥"
१४३
पृथिवीकायिकतया अप्कायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्नाः उत्पन्नपूर्वा?, भगवानाह - 'हंते' त्यादि, हन्तेति प्रत्वधारणे गौतम! 'असकृत्' अनेकवारम्, अथवा 'अनन्तकृत्वः' अनन्तान् वारान्, संसारस्यानादित्वात् एवं प्रतिपृथिविताबद्वक्तव्यं यावदधः सप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः ।
मू. (११०) इमीसे णं भंते! रयणप्प० पु० तीसाए नरयावाससयसहस्सेसु इक्कमिक्कंसि निरयावासंसि सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता पुढवीकाइयत्ताए जाव वणस्सइकाइयत्ताए नेरइयत्ताए उववन्नपुव्वा ?, हंता गोयमा ! असतिं अदुवा अनंतखुत्तो, एवं जाव अहेसत्तमाए पुढवीए नवरं जत्थ जत्तिया नरका ।
वृ. क्वचिदिदमपि सूत्रं द्दश्यते - "इमीसे णं भंते! रयणप्पभाए पुढवीए निरयपरिसामंतेसु जावमहावेयणतराचेव, एवंजाव अहेसत्तमा । अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकपरिसमन्तेषुनरकावासपर्यन्तवर्त्तिषु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणप्फइकाइय'त्ति बादराकायिका बादरवायुकायिका बादरवन - स्पतिकायिकास्ते भदन्त ! जीवाः 'महाकम्पतरा चेव' महत्-प्रभूतमसातवेदनीयं कर्म्म येषां ते महाकर्माणः, अतिशयेन महाकर्माणो महाकर्म्मतराः, 'चेवे' त्यवधारणे, महाकर्म्मतरा एव कुतः ? इत्याह
'महाकिरियतरा चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तदध्यवसायानिवृत्या येषांते महाक्रियाः, अतिशयेन महाक्रिया महाक्रियतराः, 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन' मिति न्यायाद्धेतावत्र प्रथमा, ततोऽयमर्थ - यतो महाक्रयतरा एव ततो महाकर्म्मतरा एव, महाक्रियतरत्वमपि कुतः ? इत्याह
'महाश्रवतरा एव' महान्त आश्रवाः - पापोपादानहेतव आरम्भादयो येषामासीरन् ते महाश्रवाः, अतिशयेन महाश्रवा महाश्रवतराः, 'चेवे 'ति पूर्ववत्, तदेवं यतो महाकर्म्मतरा एव ततो महावेदनतरा एव, नरकेषु क्षेत्रस्वभावजाया अपि वेदनाया अतिदुःसहत्वात्, भगवानाह - हंता गो० 'तेणं जीवा महाकम्मतरा चेवे' त्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधः सप्तमी मू. (999) पुढवीं ओगाहित्ता, नरगा संठाणमेव बाहल्लं । विक्खंभपरिक्खेवे वण्णो गंधो य फासो य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org