SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १४२ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / नै०-२/१०६ चतुर्थे जघन्या चतुर्दश सागरोपमाणि एकः सागरोपमस्य पञ्चभागः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः, पञ्चमे जघन्या पचदश सागरोपमाणि त्रयः सागरोपमस्य पञ्चभागाः उत्कृष्टा परिपूर्णानि सप्तदश सागरोपमाणि, एष चात्र भावार्थसागरोपमदशकस्योपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य पञ्चभागाविति वर्द्धयितव्यं ततो यथोक्तं परिमाणं भवति । तमः प्रभायां प्रथमे प्रस्तटे जघन्या स्थिति सप्तदश सागरोपमाणि उत्कृष्टाऽष्टादश साग०द्वौ च सागरोपमस्य त्रिभागौ, द्वितीये जघन्याऽष्टादश साग० द्वौ च सागरोपमस्यं त्रिभागौ उत्कृष्ट विंशति साग० एकः सागरोपमस्य त्रिभागः, तृतीये जघन्या विंशति साग० एकः सागरोपमस्य त्रिभागः उत्कृष्टा द्वाविंशति साग०, अत्राप्येष तात्पर्यार्थ - सप्तदश सागराणामुपरि प्रतिप्रस्तटं क्रमेणैकं सागरोपमं द्वौ च सागरोपमस्य त्रिभागाविति वर्द्धयितव्यं, ततो यथोक्तं परिमाणं भवति । सप्तम्यां तु पृथिव्यामेक एव प्रस्तट इति तत्र पूर्वोक्तमेव परिमाणं द्रष्टव्यम् । मू. (१०७) इमीसे णं भंते! रयणप्पभाए नेरतिया अनंतरं उव्वट्टिय कहिं गच्छंति ? कहिं उववज्ज्रंति ? किं नेरतिएसु उववज्रंति ? किं तिरिक्खजोणिएसु उववज्जंति ?, एवं उव्वट्टणा भाणितव्वा जहा वक्कंतीए तहा इहवि जाव अहसेत्तमाए ॥ वृ. सम्प्रति नैरयिकाणामुद्वर्तनामाह- 'रयणप्पभापुढवि' इत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! अनन्तरमुद्धृत्य कव गच्छन्ति ?, एतदेव व्याचष्टे - कोत्पद्यन्ते इत्यादि, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा वक्तव्यं यावत्तमस्तमायां, तच्चातिप्रभूतमिति तत एवावधार्यम्, एष च सङ्क्षेपार्थः रत्नप्रभा पृथिवीनैरयिका यावत्तमः प्रभापृथिवीनैरयिका अनन्तरमुद्वृत्ता नैरयिकदेवैकेन्द्रियविकलेन्द्रियसंमूर्च्छिमपञ्चेन्द्रियासङ्घयेयवर्षायुष्कवर्जेषु शेषेषु तिर्यङ्गनुष्येषूत्पद्यन्ते, सप्तमपृथिवीनैरयिकास्तु गर्भजतिर्यकपञ्चेन्द्रियेष्वेव न शेषेषु । सम्प्रति नरकेषु पृथिव्यादिस्पर्शस्वरूपमाह मू. (१०८) इमीसे णं भंते! रयण० पु० नेरतिया केरिसयं पुढविफासं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं, एवं जाव अहेसत्तमाए, इमीसे णं भंते! रयण- पु० नेरइया केरिसयं आउफासं पञ्चणुब्भवमाणा विहरंति ?, गोयमा ! अनिट्टं जाव अमणामं, एवं जाव अहेसत्तमाए, एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए । इमाणं भंते! रयणप्पभापुढवी दोच्चं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं सव्वक्खुड्डिया सव्वंतेसु ?, हंता ! गोयमा ! इमा णं रयणप्पभापुढवी दोच्चं पुढविं पणिहाय जाव सव्वक्खुड्डिया सव्वंतेसु, दोच्चा णं भंते! पुढवी तच्चं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा, हंता गोयमा दोच्चाणं पुढवी जाव सव्वक्खुड्डिया सव्वंतेसु । एवं एएणं अभिलावेणं जाव छट्टिता पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुड्डिया सव्वंतेसु । वृ. 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशं पृथिवीस्पर्श प्रत्यनुभवन्तो विहरन्ति ?, भगवानाह - गौतम ! 'अनिट्टं अकंतं अप्पियं अमणुन्नं अमणामं' अस्यार्थ प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावत्तमस्तमायाम्, एवमप्तेजोवायुवनस्पतिस्पर्शसूत्राण्यपि भावनीयानि, नवरं तेजः स्पर्शउष्णरूपतापरिणतनरककुड्यादिस्पर्श परोदीतवैक्रियरूपो वा Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy