SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, नै०-उद्देशकः २ १३७ यावदेकाहं वा द्वयहंवायावदुत्कर्षतोऽर्द्धमासंसंहन्यात, ततोणमितिवाक्यालङ्कारे 'तम्' अयस्पिण्डं शीतं, स च शीतो बहिर्मनाग्मात्रेणापि स्यादत आह शीतीभूतं' सर्वात्मनाशीतत्वेन परिणतंअयमयेन संदंशकेनगृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैतदभूतुनभवति भविष्यतिवाकेवलमसद्भूतमिदंकल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत्, प्रक्षिप्यचस पुरुषोणमिति वाक्यालङ्कारे 'उम्मिसियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेषनिमेषौ क्रियेते तावदन्तरप्रमाणेन कालेनातिक्रान्तेन पुनरपि प्रत्युद्धरिष्यामीतिकृत्वा यावद् द्रष्टुं प्रवर्तते तावत् ‘प्रवितरमेव' प्रस्फुटितमेव, यदिवा 'प्रविलीनमेव' नवनीतमिव सर्वथा गलितमेव, यदिवा 'प्रविध्वस्तमेव' सर्वथा भस्मसाद्भूतमेवपश्येत्, नपुनःशक्नुयाद्अचिरात्तंअप्रस्फुटितंअविलीनं वा अविध्वस्तं वापुनरपि प्रत्युद्धर्तुम्, एवंरूपानाम तत्रोष्णवेदना ।। __ अस्यैवार्थस्य स्पष्टतरभावनार्थं दृष्टान्तान्तरमाह- सेजहानामए' इत्यादि, से सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं वा दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य इति विकल्पनभावना, ‘मत्तः' मदकलितः ‘मातङ्गः' हस्ती, इह मातङ्गोऽन्त्यजोऽपि संभवति ततस्तदाशङ्काव्युदासार्थं नानादेशजविनेयजनानुग्रहाय (वा) पर्यायद्वयमाह-'द्विपः' द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः, 'मूलविभुजादय' इति कप्रत्ययः, कौजीर्यतीति कुञ्जरः, यदिवा कुओ-वनगहने रमति-रतिमाबध्नातीति कुञ्जरः षष्टिायनाः-संवत्सरा यस्य स षष्टिहायनः 'प्रथमशरत्कालसमये' कार्तिकमाससमये, इह प्राय ऋतव सूर्यर्तवो गृह्यन्ते ते चापाठादयोद्विद्विमासप्रमाणाः, प्रवचनेच क्रमेणैवनामानः, तद्यथा-प्रथमः प्रावृद्वितीयोवर्षारात्रः तृतीयः शरत् चतुर्थो हेमन्तः पञ्चमो वसन्तः षष्ठो ग्रीष्मः, तथा चाह पादलिप्तसूरि॥१॥ “पाउस वासारत्तो, सरओ हेमंत वसन्त गिम्हो य। एए खलु छप्पि रिऊ, जिनवरदिट्ठा मए सिट्ठा ।" ततः प्रथमशरत्कालसमयः कार्तिकसमय इति विवृत्तम्, आह च मूलटीकाकृत्"प्रथमशरत्-कार्तिकमासः" तस्मिन् वाशब्दोविकल्पने चरमनिदाधकालसमयेवा' चरमनिदाघकालसमयो-ज्येष्ठमासपर्यन्तस्तस्मिन, वाशब्दो विकल्पने, 'उष्णाभिहतः सूर्यखरकिरणप्रतापाभिभूतः, अतएवोष्णैः सूर्यकिरणैः सर्वतः प्रतप्ताङ्गतया शोषभावतस्तृषाभिहतः, तत्रापिपानीयगवेषणार्थमितस्ततः स्वेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौ गमनतोदवाग्निज्वालाभिहतः अतएव 'आतुरः' कचिदपिस्वास्थ्यमलभमानःसन आकुलः, सर्वाङ्गपरितापसम्भवेनगलतालुशोषभावात्शुषितः, कचित् 'झिज्जिए' इतिपाठस्तत्र 'क्षितः' क्षीणशरीर इति व्याख्येयम्, असाधारणतृड्वेदनासमुच्छलनात्पिपासितः। ___अतएव दुर्बलः शारीरमानसावष्टम्भरहितत्वात्, ‘क्लान्तः' ग्लानिमुपगतः ‘क्लमूग्लानौ' इति वचनात्, एकां महतीं 'पुष्करिणी' पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी तां, किंविशिष्टामित्याह-'चतुष्कोणां' चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम-विषमोन्नतिवर्जितं सुखावतातीरं-तटंयस्याः सासमतीराताम्, आनुपूव्येण-नीचैर्नीचैनभावरूपेण नत्वेकहेलयैव क्वचिद्ग रूपाक्वचिदुन्नतिरूपा इति भावः, सुष्टु-अतिशयेन यो जातो वप्रः-केदारो जलस्थानं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy